पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४०४) भट्टिकाव्ये जयमङ्गलासमेत- वीर्य मान ददर्शस्त्वं मा न त्रास्थाः क्षतां पुरम् । तवाद्राक्ष्म वयं वीर्यं त्वमजैषीः पुरा सुरान् ॥ १२ ॥ [ पञ्चदशः -- वीर्यमित्यादि – त्वं वीर्य मा न ददर्श किन्तु दर्शय | ण्यन्तस्य चाङ रूपम् । क्षतां परैरवसादितां पुरं मा न त्रास्था : किन्तु त्रायस्व | 'त्रैड् पालने' न च त्वमशक्त: यतस्तव वीर्यमद्राक्ष्म दृष्टवन्तो वयम् । 'न दृशः ।३।१।४७|' इति निषेधात् क्सादेशो न भवति । 'इरितो वा । ३।१।५७।१ इति विकल्पेनाविधानांत्तदभावपक्षे रूपम् । पुरा पूर्व त्वं सुरान् देवानजैषी:- जितवानसि ॥ १२ ॥ अवोचत्कुम्भकर्णस्तं वय मन्त्रेऽभ्यधाम यत् । न त्वं सर्वे तद्श्रौषी: फलं तस्येदमागमत् ॥ १३ ॥ अवोचदित्यादि-इत्युक्तवन्तं तं रावणं कुम्भकर्णोऽवोचत् उक्तवान् । मन्त्रे मन्त्रणसमये 'क्रियासमारम्भगतोऽभ्युपाय:' इत्यादिना यद्वयमभ्यधाम अभिहितवन्तः । धाधातोः 'गांतिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु।२।४।७७।′ इति सिचो लुक् । तत्सर्वं त्वं नाश्रीषीः न श्रुतवानसि । तस्याश्रवणस्येंद फलं विनाशरूपमागमत् आगतम् | गमेऌदित्वादङ् ॥ १३ ॥ प्राज्ञवाक्यान्यवासंस्था मूर्खवाक्येष्ववाऽस्थिथाः । अध्यगीष्ठाश्च शास्त्राणि प्रत्यपत्था हितं न च ॥ १४ ॥ - प्राज्ञवाक्यानीत्यादि — प्राज्ञानां विभीषणादीनां वाक्यान्यवामंस्थाः अव ज्ञातवानसि । 'मन ज्ञाने ।" मूर्खवाक्येषु प्रहस्तादिवाक्येषु अवास्थिया: अवस्थितोऽसि । 'समवप्रविभ्यः स्थः | १|३|२२|| इति तङ् | स्थाध्वोरिच्च |१|२|१७|| त्वं च शास्त्राण्यध्यगीष्ठा अधीतवानसि । 'विभाषा लुङ्- लङोः । २ । ४ । ५० ।' इति इङो गाङादेशः । न च हितं प्रत्यपत्थाः प्रतिपन्नवानसि | ‘पद गतौ' । 'झलो झलि ।८।२ । ३६ ।' इति सिचो लोपः ॥ १४ ॥ मूर्खास्त्वामववञ्चन्त ये विग्रहमचीकरन् । अभाणीन्माल्यवान्युक्तमक्षंस्थास्त्वं न तन्मदात् ॥ १५ ॥ १ प्रज्ञैषामस्तीति तथोक्तानाम् । 'प्रज्ञा श्रद्धार्चाभ्यो: णः ५। २ । १०१। इति णः । बुद्धिमतामित्यर्थः ।