सर्गः ] तिङकाण्डम् | (४०३) अतुषदित्यादि -- दृष्ट्वा चातुषत् तुष्टः । पुषादित्वादङ् । आसन्ने चात्मनः काञ्चनं पीठं निरदिक्षत् आदिष्टवान् । 'दिशे:' 'शल इगुपधादुनिटः क्सः ।३।१।४५।' इति क्सः । अथानन्तरं कुम्भकर्णः अस्मेष्ट ईषद्धसितवान् । स चार्थो येनायमादर इति । अन्तिके चास्य काञ्चनं पीठमध्यास्य पीठे उपावि- क्षत् उपविष्टः । पूर्ववत् क्सः ॥ ८ ॥ अवादीन्मां किमित्याह्नो राज्ञा च प्रत्यवादि सः । माज्ञासीस्त्वं सुखी रामो यद्कार्षीत् स रक्षसाम् ॥ ९ ॥ अवादीदित्यादि- -- तत उपविश्य तमवादीदुक्तवान् । 'वदद्व्रजहलन्तस्याचः ।७।२।३ ।' इति वृद्धिः । किमिति कस्मात् कारणात् मामाह्वः आहूत- वान् । 'लिपिसिचिह्नश्च | ३|१||५३|' इत्यङ् | 'आतो लोपः । ६ । ४ । ६४ ।' इति लोपे आह्वः राज्ञाःच स कुम्भकर्णः प्रत्यवादि प्रत्युक्तः । कर्माण लुङ् । 'चिण् “भावकर्मणोः । ३ । १ । ६६ ।। इति चिण् । 'चिणो लुक् । ६ । ४ । १०४।' इति तलोपः । सुखी त्वं येन रामो रक्षसां यद्कार्षीत् तत्त्वं मा ज्ञासी: न ज्ञातवानसि । 'यमरमनमातां सकूच | ७ | २ | ७३ ।। इति सगिटौ ॥ ९ ॥ उदतारीदुदन्वन्तं पुरं नः परितोऽरुधत् । व्यद्योतिष्ट रणे शस्त्रैरनैषीद्राक्षसान् क्षयम् ॥ १० ॥ उदतारीदित्यादि---स हि उदन्वन्तं समुद्रमुतारीत् उत्तीर्ण: । 'सिचि वृद्धिः परस्मैपदेषु ।७।२|१|' नोऽस्माकं पुरं परितः समन्ताद्रुधत् आवृतवान् । 'इरितो वा | ३ | १|५७|' इत्यङ् | रणे शखैरद्योतिष्ट द्योततवान् | ता- देर्लुङीति विकल्पेन परस्मैपदविधानादात्मनेपदम् । राक्षसान् क्षयं विनाशमनै- षीत् नीतवान् ॥ १० ॥ न भावोचमहं किंचित् प्रियं यावदजी विषम् । बन्धुस्त्वमर्चितः स्नेहान्मा द्विषो न वधीर्मम ॥ ११ ॥ न प्रावो चमित्यादि – यावदजीविषं यावन्तं कालं जीवितः तावन्तं कालं कस्यचित्प्रियं किंचिन्न प्रावोचं नोक्तवानहमिति तव विदितमेव । किन्तु बन्धुस्त्वं स्नेहादर्चितः सन् मम संबन्धिनो द्विषः शत्रून् मा न वधी: मा न मारय किन्तु मारयेति | 'माङि लुङ् | ३ | ३ | १९७५ | इति सर्वलकारापवादः । लुङ् आवोचमिति 'वच उम् |७|४|२२|१ ॥ ११ ॥ उदकानि सन्त्यत्रेति तम् । 'उन्धौ च ८ | २ | १३ |' इति साधु |
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४४१
दिखावट