पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३९८) भट्टिकाव्ये जयमङ्गलासमेते- ऊर्णुनाव स शस्त्रौघैर्वानराणामनीकिनीम् । शशास च बहून् योधान् जीवितेन विवेच च ॥ १०३ ॥ - ऊर्णुनावेत्यादि ——स सेनानीर्वानराणामनीकिनी: सेना : शणैरूर्णुनाव छादितवान् । ऊर्णोतेर्णुवद्भावादिजादेरित्याम् न भवति । शशास च योधान् । 'शसु हिंसायाम् ।' जीवितेन च विवेच पृथक्कृतवान् ।'विचिर् पृथग्भावे' इति रुघादौ स्वरितेत् ॥ १०३ ॥ आससञ्ज भयं तेषां दिद्युते च यथा रविः | नाययास द्विपद्हर्जगाहे च दिशो दश ॥ १०४ ॥ [ चतुर्दशः- आससञ्जेत्यादि---तेषां योधानां युयुत्सूनां भयमाससञ्ज आलग्नम् । ‘पञ्ज सङ्गे' इत्यकर्मकः । प्रहस्तश्च रविरिव दिद्युते द्योतते स्म । 'द्युतिस्वाप्योः सम्प्र- सारणम् |७|४||६७।' इत्यभ्यासस्य सम्प्रसारणम् । नाययास युध्यमानो नाय - स्यति स्म । ‘यसु प्रयत्ने ।’ द्विषद्दे हैश्च शत्रुकायैः करणभूतैः दश दिशो जगाहे अवष्टब्धवान् ॥ १०४ ॥ केचित् संचुकुटुभता लेजिरेऽन्ये पराजिताः । संग्रामाद् बभ्रशुः केचिद् ययाचुश्चापरेऽभयम् ॥ १०५ ।। केचिदित्यादि-केचिद्रीताः सन्तः संचुकुटुः संकुटिताः । निष्प्रयत्नाः स्थिता इत्यर्थः । ‘कुट कौटिल्ये' अन्ये पराजिताः सन्त: लेजिरे भसिताः । प्रह- स्तन मृगा इव कातरा यूय़मिति । 'लज-लाजि भर्त्सने ।' कर्मणि लिट् । केचित् संग्रामाद्बभ्रशुः पलाथिताः ‘भृशुभ्रंशु अधःपतने ।' अपरे चाभयं ययाचुः याचितवन्तः ॥ १०५ ।। एवं विजिग्ये तां सेनां प्रहस्तोऽतिददर्प च । शशाम न च संक्रुद्धो निर्जगोप निशाचरान् ॥ १०६ । एवमित्यादि--एवमुक्तेन प्रकारेण प्रहस्तस्तां सेनां विजिग्ये जितवान् । ‘त्रिपराभ्यां जेः |१|३|१९|' इति तङ् ।' सँल्लिटोर्जेंः |७|३|५७।' इति कुत्वम् । अतिददर्प च सुटुं हृष्टवान् ।' दृप हर्षविमोचनयोः' । न च शशाम न च शमं गतः । निशाचरान् स्वीयानमात्यान् निर्जुगोप रक्षितवान् । आयाभावपक्षे रूपम् ॥ १०६ ॥ 7 १ 'पृतनानीकिनी चमूः ।' इत्यमरः ।