पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः } तिङ्काण्डम् | प्रतोदा जगलुर्वाममानञ्चुर्यज्ञिया मृगाः | ददाल भूः पुपूरे द्यौः कपीनामपि निःस्वनैः ॥ ९९ ।। प्रतोदा इत्यादि — प्रतोदाः जगलुः हस्तेभ्यो गलिताः । 'गल अदने' अने- कार्थत्वात्पतनेऽपि । मृगाः यज्ञियाः यज्ञार्हाः कृष्णसारा: । 'यज्ञविग्भ्यां घ खञौ ।५।१।७१।' वाममङ्गमानञ्चुः गतवन्तः । 'अत आदे: |७|१|७०'। इति दीर्घे ।‘तस्मान्नुड् द्विहलः |७|१४|७|| इति नुट् । भूर्ददाल विदीर्णा | जज्वालेति पाठान्तरं चचालेत्यर्थः । कपिनिःस्वनैद्यौराकाशं पुपूरे पूर्णम् । दि॒िवः पूरणनिमित्तं यतः कंपयो हर्षात्तद्विनाशसूचका एवमाचरन्ति ।। ९९ ॥ । (३९७) मिमेह रक्तं हस्त्यश्वं राक्षसाश्च नितिष्ठिवुः । सेने निर्दयं च प्रजहतुः ॥ १०० ॥ ततः शुशुभतुः मिमेहेत्यादि--हस्त्यश्वं कर्तृ रक्तं मिमेह मूत्रितवदित्यर्थः ।' मिह सेचने ।" राक्षसाश्च स्वरक्तं नितिष्ठिवुः निरस्तवन्तः । ततो दुर्निमित्तादनन्तरं ते सेने सन्नद्धे शुशुभतुः शोभितवत्यौ । निर्दयं प्रजह्तुः प्रहृतवत्यौ ।। १०० ।। 'दिद्विषुर्दुवुश्चच्छुश्चलः सुषुपुर्हताः । । चखादिरे चखादुश्च विलेपुश्च रणे भटाः ॥ १०१ ॥ दिद्विषुरित्यादि-रणे भटाः दिद्विषुः परस्परं द्विष्टवन्तः ।' द्विष अप्रीतौ ।" दुधुवुः अभिमुखं गतवन्तः ।' द्यु अभिगमने ।' चच्छुः छिन्नवन्तः ।' छो छेदने ।' हताश्चक्लृमुः मूर्च्छा गतवन्तः । सुषुपुः भूमौ पतिताः । वच्यादिना सम्प्रसारणम् । चखादिरे खादिताः । कर्माण लिट् । चखादुः खादितवन्तः । विलेपुश्च विलापं कृतवन्त: । 'अत एकहलमध्येऽनादेशादेर्लिंटि |६|४|१२| इत्येत्वम् ।। १०१ ।। प्रहस्तस्य पुरोऽमात्यान् जिहिंसुर्दधृषुस्तथा । वानराः कर्म सेनानी रक्षसां चक्षमे न तत् ॥ १०२ ॥ प्रहस्तस्येत्यादि---अमात्यान् सचिवान् प्रहस्तस्य पुरोऽग्रतः वानरा जिहंसुईतवन्तः । तथा दधृषुः परिभूतवन्तः ।' निवृषा प्रागल्भ्ये' । तच्च कर्म वानरैर्यत्कृतं रक्षसां सेनानीः प्रहस्तः न चक्षमे स्म ॥ १०२ ॥ १ हस्तिनश्चाश्वाश्चेति यथोक्तम् । 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् २ | ४ | २ | इत्येकवचनम् ।