पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३९६ ) भट्टिकाव्ये जयमङ्गलासमेते- [ चतुर्दशः- वलिलेप समालब्धवान् । मृद्वीका द्राक्षा तस्याः विकार: माकं मधु चचाम | त्वक्त्रं च सन्नहनं वरं श्रेष्ठं आचकचे बद्धवान् । 'कच बन्धने' इत्यनुदात्तेत् ॥ ९४ ॥ उष्णीष मुमुचे चारु रथं च जुजुषे शुभम् | आललम्बे महास्त्राणि गन्तु प्रववृते ततः ॥ ९५ ॥ उष्णीषमित्यादि--उष्णीपं शिरखाणं मुमुचे । रथं च जुजुपे । जुपिरनु- दात्तेत् । महास्त्राणि आललम्बे गृहीतवान् । 'लबि अवस्रंसन' इत्यनुदात्तेत् । तत उत्तरकालं गन्तुं प्रववृते प्रवृत्तः ॥ ९५ ॥ आजघ्नु स्तूर्यजातानि तुष्टुवुश्चानुजीविनः । रजः प्रववृधे घोरं घोषश्च व्यानशे दिशः ॥ ९६ ॥ आजघ्नुरित्यादि -- तूर्यजातानि वाद्यसमूहान् आजघ्नुः ताडितवन्तः । तन्नियुक्ता इत्यर्थात् । 'आङो यमहनः । १ । ३ । २८ ।। इति तङ् भवति सकर्मकत्वात् । अनुजीविनश्च तुष्टवुः । 'जय, जीव' इति स्तुवन्ति स्म । पदक्षोभाद् घोरं रजः प्रववृधे वर्धते स्म । घोषश्च कलकलशब्द: दिशो व्याशे व्याप्तवान् ।। ९६ ॥ न तं यान्तं दुद्रुवुर्गृध्राः ऋव्यादश्च सिषेविरे । आवबुर्वायवो घोराः, खादुल्काश्च प्रचक्षरुः ॥ ९७ ॥ तं यान्तमित्यादि–तं प्रहस्तं गृध्राः यान्तम् अशुभसूचकाः दुद्रुवुर्गतवन्तः, क्रव्यादश्च शृगालाः सिषेविरे सेवितवन्तः, वायवो घोरा: पांशुग्राहिण : आ- चवुः समन्ताद्वान्ति स्म, उल्काइच तदा तस्मिन् काले आकाशात्प्रचक्षरुः पतिताः । 'क्षर संचलने' इत्यकमकः ॥ ९७ ॥ सस्यन्दे शोणितं व्योम रणाऽङ्गानि प्रजज्वलः । स्था: प्रचस्खड: सावा न ररंहाश्वकुञ्जरम् ॥ ९८ ।। सस्यन्द इत्यादि -- व्योम कर्तृ शोणितं सस्यन्दे सिञ्चति स्म । स्यन्दिः सकर्मकः । रणाङ्गानि खड्नादीनि जज्वलुः ज्वलन्ति स्म । साश्वाः सहाश्वैः स्था: प्रचस्खल: स्खलन्ति स्म । अश्वकुञ्जरं नररंह न गतम् हया गजाश्च नगन्तुं प्राभवन्नित्यर्थः ॥ १८ ॥ १ 'अशु व्यासो संघाते च' इत्यनुदात्तेत् । लिट् ।