पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् | ( ३९५ ) युयुजुरित्यादि--स्यन्दनान् रथान् अश्वैर्युयुजुः युञ्जन्ति स्म । पुरो- हिताः देवानीजुः पूजितवन्तः । यजादित्वात्सम्प्रसारणम् । ब्राह्मणानानचुः पूजितवन्तः । ते च पूजिता: आशिष: आशशांसरे उदितवन्तः । 'आङ : शासु इच्छायाम्' अनुदात्तेत् । शास इत्वे आङ् 'आशास: कावुप धाया इत्वं वाच्यम्' इतीत्वे आशीः ।। ९० ।। ऊहिरे मूर्ध्नि सिद्धार्था गावश्चालेभिरे भटैः । प्रचुक्ष्णुवुर्महास्त्राणि जिज्ञासाञ्चक्रिरे हयान् ॥ ९१ ॥ - ऊहिर इत्यादि — भटैर्योधैः सिद्धार्थाः सर्पपाः मूर्ध्नि ऊहिरे ऊढाः । गाव- श्चालेभिरे स्पृष्टाः । कर्माण लिट् । महास्राणि प्रचुक्ष्णुवुः तेजितवन्तः । तथा तैर्योद्धुं पार्यत इति । ‘क्ष्णु तेजने ।' भटाः हयान् जिज्ञासांचक्रिरे ज्ञातुमिच्छां कृतवन्तः किमेते योद्धुं क्षमा नेति । 'ज्ञानुस्मृदृशां सनः |१|३|५७|' इत्यात्मने- पदित्वादनुप्रयोगेऽपि तङ् ॥ ९१ ॥ अथ द्वाभ्यां युग्मम् | लढुंः खड्गान् ममार्जुश्च ममृजुश्च परश्वधान् | अलञ्चक्रे समालेभे ववसे बुभुजे पपे ॥ ९२ ॥ ललुरित्यादि-खड्गान् ललुर्गृहीतवन्तः । 'ला आदाने ।" ममार्जुश्च विशुद्धान् कृतवन्तः तथा परश्वधान ममृजुः परशून् शोधितवन्तः । मृजेरजादौ संक्रमे विभाषा वृद्धि | योद्धूभिर्वक्ष्यमाणैः अलंचक्रे अलंकृतम् । समालेभे समालब्धम् । ववसे आच्छादितम् । 'वस आच्छादने ।' बुभुजे भुक्तम् । पपे पीतम् । भावे लिट् ॥ ९२ ॥ जहसे च क्षणं यानैर्निर्जग्मे योद्धुभिस्ततः । विप्रान् प्रहस्त आनर्च जुहाव च विभावसुम् ॥ ९३ ॥ जहस इत्यादि-क्षणं जहसे हसितम् । यानैः करणभूतैः निर्जग्मे निर्ग- तम् । ततः प्रहस्तः विप्रान गोसुवर्णादिदानेन आनर्च पूजितवान् । विभावसुं चाभिम् आज्यादिना जुहाव प्रीणितवान् ॥ ९३ ॥ संवर्गयां चकाराऽऽतान् चन्दनेन लिलेप च । चचाम मधु माइकिं त्वक्त्रं चाचकचे वरम् ॥ ९४ ॥ संवर्गयामित्यादि--आप्तान् विश्वासिनः संवर्गयांचकार कटकादिप्र- दानेन संवर्गितवान् । संवर्ग करातीति ण्यन्तस्य रूपम् । चन्दनेन