पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् चुक्रुधे तत्र नीलेन तरुश्चोच्चिक्षिपे महान् । प्रहस्तोऽभिहतस्तेन बाणान् विससजे बहुन् ।। १०७ ।। चुक्रुध इत्यादि---तत्र तस्मिन् संग्रामे नीलन चुक्रुधे क्रुद्धम् | भावे लिट् । तरुश्चोच्चिक्षिपे । उत्क्षिप्तः । कर्मणि लिट् | तेन तरुणा उन्मूलितनाभिहतः सन् प्रहस्तो बहून्बाणान् विससृजे क्षिप्तवान् । 'सृज विसर्गे' इति देवादिको- ऽनुदात्तेतू ।। १०७ ।। सह कपी रथाश्वांश्च रिपोस्ततर्ह शाखिना | धरित्रीं मुसली तेये महस्तश्चिखिदे न च ॥ १०८ ॥ - सह इत्यादि - कपिर्नीलो बाणान् सेहे सोढवान् । स्थानश्वांश्च रिपोः प्रह- स्तस्य शाखिना तरुणा ततर्ह हतवान् । 'तृह हिसि हिंसायाम् ।' हतरथाश्वश्च प्रहस्तो मुसली गृहीतमुसलः धरित्री तेये गतवान् । 'अय वय -' इत्यत्र तयिर- ‘नुदात्तेत् । न च चिखिदे न खिन्नः । 'खिद् दैन्ये' इत्यनुदात्तेत् || १०८ ॥ संदुधुक्षे तयोः कोपः पस्फाये शस्त्रलाघवम् । नुनोद शााखन नील आवत्रे मुसली तरुम् ॥ १०९ ॥ सन्दुधुक्ष इत्यादि - तयोर्नीलप्रहस्तयोः कोपः संदुधुक्षे वृद्धिं गतः । शस्त्र - • लाघवमत्र कौशलं पस्फाये वृद्धि गतम् । नुनोद शाखिनं नीलः प्रेरितवान् । मुसली प्रहस्तः तरुमावत्रे मुसलेनावृतवान् ॥ १०९ ।। वियत्यानभ्रतुर्भूमौ मण्डलानि विचेरतुः । प्रदुद्भवतुरन्योन्यं वीरौ शश्रमतुर्न च ॥ ११० ॥ - वयतीत्यादि - वीरौ ता वियति आकाशे आनभ्रतुः गतौ । 'अभ्र वभ्र इति गर्त्यथः । वियतोऽधिकरणत्वेन विवक्षितत्वात् द्वितीया न कृता । भूमौ च मण्डलानि तिर्यग्भ्रमणानि विचेरतुः आचरितवन्तौ । अन्योन्यं प्रदुद्रुवतुः उपतापितवन्तौ । न च शश्रमतुः न श्रान्तौ ॥ ११० ।। (३९९ ) समीरयाञ्चकाराथ राक्षसस्य कपिः शिलाम् । क्षतस्तया ममारासावाशिवाय च भूतलम् ॥ १११ ॥ समीरयामित्यादि-अथानन्तरं कपिः राक्षसस्य शिलां' समीरयांचकार क्षिप्त - वान् ।‘ईर क्षेपे' इति चौरादिक उदात्तेत् । असौ राक्षसस्तया शिलया हतः सन् ममार मृतवान् । भूतलं च. आशिश्राय आश्रितवान् । तत्र पतित इत्यर्थः ॥१११॥ १ 'वियद्विष्णुपदं वा तु पुंस्याकःशविहायसी ।' इत्यमरः ।