पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- [ चतुर्दशः - रुरुजुरित्यादि--रुरुजुर्भग्नवन्तः, थ्रेजिरे शोभिताः, बहुधा बहुप्रकारं फेणुगता: 'फण गतौ ।' वीराः सात्त्विका न बिभयाञ्चक्रुः न बिभ्यति स्म ‘भीहोमृहुवां श्लवच्च |३|१|३९|' इत्याम् । विभेतेः परस्मैपदित्वात् अनुप्रयोगे परस्मैपदम् । परान् शत्रून् शौर्यगुणयुक्ताः प्रयोजका: भीषयांचक्रिरे भीषयन्ते स्म । अत्र 'भीरम्योर्हेतुभये । १ | ३ | ६८ । इति तङ् अनुप्र- (३९२) योगेऽपि ॥ ७८ ॥ रक्तं प्रचुश्चुतुः क्षुण्णाः शिश्वियुर्बाणविक्षताः । अस्यतां शुशुबुर्बाणान्भुजाः साऽङ्गुष्ठमुष्टयः ॥ ७९ ॥ रक्तमित्यादि---फेचित् क्षुण्णा: खण्डिताः सन्तो रक्तं प्रचुश्चुतुः प्रक्ष- 'रिताः, केचित् शिश्वियुः । 'विभाषा श्वे: । ६ । १ । ३० ।' इत्यसम्प्रसार- णपक्षे रूपम् । वाणानस्यतां क्षिप्यतां योधानां भुजाः साङ्गुष्ठमुष्टय: 'अङ्गुष्ठ- मुष्टिसहिताः शरविक्षताः शरंभिन्नाः शुशुवुः गताः । गत्यर्थे द्रष्टव्यम् । सम्प्र- •सारणपक्षे रूपम् ॥ ७९ ॥ रणे चिक्रीड धूम्राक्षस्तं ततर्जानिलात्मजः । आददे च शिलां साऽश्वं पिपेषास्य रथं तया ॥ ८० ॥ रण इत्यादि --- धूम्राक्षो रणे चिक्रीड क्रीडति स्म, तमनिलात्मजो हनू- मान् ततर्ज भत्सितवान्, शिलामाददे च गृहीतवान् तथा शिलया अस्य धूम्राक्षस्य सावं रथं पिपेष चूर्णितवान् ॥ ८० ॥ 9 पपात राक्षसो भूमौ रंराट भयङ्करम् । तुतोद गदया चारिं तं दुधावादिणा कविः ॥ ८१ ॥ पपातेत्यादि--राक्षसो धूम्राक्षो भूमौ पपात, पतितः सन् भयंकरं रोट रटितवान्, ततोऽरिं हनूमन्तं गदया तुतोद आहतवान्, तं राक्षसं न्स कपिः अद्रिणा दुधाव व्यापादितवान् ॥ ८१ ॥ अकम्पनस्ततो योढुं चक्रमे रावणाज्ञया । स रथेनाभिदुद्राव जुघुरे चाऽतिभैरवम् ॥ ८२ || अकम्पन इत्यादि --- ततो धूम्राक्षविनाशानन्तरम् रावणाज्ञया युध्यस्वेति योद्धुं चकमे इष्टवान् । 'आयादय आर्धधातुके वा । ३ । १ । ३१ ।। इति गिङभावपक्षे रूपम् । सोऽकम्पनः रथेनाभि- अकम्पनो राक्षसः