पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: 1 तिङ्काण्डम् । (३९१ ) इत्यस्य । 'न व्यो लिटि |६||१|४६ | इत्यात्वप्रतिषेधः । 'लिट्यभ्यास स्योभयेषाम् |६|१|१७|' इति सम्प्रसारणम् । वाहनान्यधिशिशियरे आरूढवन्तः । 'एरनेकाचोऽसंयोगपूर्वस्य । ६।४।८२।' इति यण् । 'अधिशी स्थास कर्म | १|४|४६।' इति कर्मसंज्ञा । अस्त्राण्यानर्जु: गृहीतवन्तः । 'अर्ज प्रतियत्ने ।' 'अत आदेः |७|४|७०।१ इति दीर्घः । 'तस्मान्नुड् द्विहल: ।७।४।७१।' इति नुटू 'आनर्चुः' इति पाठान्तरम् । पूजितवन्तः । आहवक्षितिं च रणभूमिं ववञ्चुर्गताः । ‘वञ्चु गतौ ॥ ७४ ॥ । अध्युवास रथं तेये पुराच्चुक्षाव चाशुभम् । संश्रावयाञ्चकाराख्यां धूम्राक्षस्तत्वरे तथा ॥ ७५ ॥ अध्युवासेत्यादि-- धूम्राक्षो रथमध्युवास आरूढः 'उपान्व ध्यावसः ।१।४।४८।' इति कर्मसंज्ञा । पुरात् लङ्कात : तेये निष्क्रान्तः ॥ 'अय पय तय' इत्यादिषु तयिरंनुदात्तेत् । चुक्षाव च शब्दं कृतवान् अशुभं भयानकम् | 'क्षु शब्दे ।' आख्याम् आत्मीयं नाम संश्रावयाञ्चकार आवितवान् तथा तत्वरे त्वरते स्म युद्धाय || ७५ ॥ , निलिल्ये मूर्ध्नि गृध्रोऽस्य क्रूरा ध्वाला ववाशिरे । शिशीके शोणितं व्योम चचाल क्ष्मातलं तथा ॥ ७६ ॥ - निलिल्य इत्यादि — अस्य धूम्राक्षस्य गच्छतो मूर्ध्नि गृध्रो निलिल्ये निलोन: । 'एरने काचोऽसंयोग पूर्वस्य ||६||४|४८२ |' इति यण् । ध्वाङ्क्षाः क्रूरा अशुभशंसिनः ववाशिरे वाशन्ते स्म । व्योम कर्तृ शोणितं शिशीके क्षरि तवत् । 'शीकृ सेचने' इत्यनुदात्तेत् । तथा क्ष्मातलं पृथ्वीतलं चचाल चलितम् ॥७६ ॥ ततः प्रजघटे युद्धं शस्त्राण्यासुः परस्परम् | वत्र चुराजुचूर्णुश्च स्येमु चुकूदिरे तथा ॥ ७७ ॥ तत इत्यादि -- ततो निमित्तादनन्तरं युद्धं प्रजघटे घटितम्, ते हरिरा क्षसाः वक्ष्यमाणाः शस्त्राण्यासुः क्षिप्तवन्तः, परस्परं वव्रुश्चुः छिन्नवन्तः, आजुघूर्णुः चक्रवद्भ्रान्ताः । घूर्णतिरनुदात्तेत् । स्येमुः शब्दं कृतवन्तः । स्यभेः फणादित्वादेत्वम् । चुकूर्दिरे क्रीडितवन्तः ॥ ७७ ॥ रुरुजु जिरे फेणुबहुधा हरिराक्षसाः । वीरा न बिभाञ्चकभपयाञ्चक्रिरे परानू ॥ ७८ ॥