पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- [ चतुर्दशः - स्वेनुरित्यादि---अथानन्तरं वानराः हृष्टाः स्खेनुः शब्दितवन्तः, तित्विषु:, शोभिताः, 'त्विष दीप्तौ ।' उद्येमुः उद्योगं चक्रुः, पर्वतानुञ्चख्नुः उत्क्षि- प्रवन्तः, दुद्रमुः इतस्ततो भ्रान्ताः । 'द्रम हम मीमृ गतौ ।' संग्रामं च आश- शासिरे अभीष्टवन्तः। ‘आङ : शासु इच्छायाम्' आदादिकोऽनुदात्तेत् ॥ ७० ॥ डुढौकिरे पुनर्लङ्कां बुबुधे तान् दशाननः । जीवतश्च विवेदारीन् बभ्रंशेऽसौ धृतेस्ततः ॥ ७९ ॥ डुढौकिरे इत्यादि -- पुनर्भूयो लङ्कां डढौकिरे जग्मुः, तान् वानरान् ढौकितान् दशाननो बुबुधे बुद्धवान, जीवतःचारीन् रामादीन् विवेद ज्ञात- वान् । अन्यथा कथं वानरा ढौकिता इति । ततश्च वृतेः सकाशा- द्वभ्रंशे भ्रष्टः ॥ ७१ । सस्रंसे शरबन्धेन दिव्येनेति बुबुन्द सः । -- बभाजाऽथ परं मोहमूहाञ्चक्रे जयं न च ॥ ७२ ॥ सांस इत्यादि - - दिव्येन शरबन्धेन सस्रंसे सस्तम् । भावे लिट् । इत्येवं दशाननो बुबुन्द श्रुतवान् । 'बुदि निशामने ।' अथानन्तरं महा- मोहं मूछाकारं महान्तमबोधम् बभाज सेवते स्म । न च जयमूहां- चक्रे वितर्कितवात् ॥ ७२ ॥ - (३९०) धूम्राक्षोऽथ प्रतिष्ठासाञ्चके रावणसम्मतः । सिंहास्यैयुयुजे तस्य वृकास्यैश्च रथः खगैः ॥ ७३ ॥ धूम्राक्ष इत्यादि - -अथ धूम्राक्षो रावणसंमतो रावणेनानुज्ञातः सन् ।' भूते निष्ठात्र द्रष्टव्या । प्रतिष्ठासांचक्रे गन्तुमिच्छां कृतवान् । प्रपूर्वात्तिष्ठतः 'समवप्रविभ्यः स्थः । १।३ । २२ ।। इति तङ् 'उपसर्गा- त्सुनोतिसुवतिस्यतिस्तौतिस्तो भतिस्थासेनयसेघसिचसजस्व जाम् | ८|३|६५|| इति पत्वम् । तस्य च गन्तुमिच्छतो रथः खगैः आकाशगामिभिर्यानैः सिंहमुखै- वृंकमुखैश्च युयुजे युक्तः । कर्मणि लिट् ॥ ७३ ॥ । त्वकंत्रैः संविव्ययुर्देहान् वाहनान्यधिशिशियरे | आनर्जुर्नृभुजोऽस्त्राणि ववञ्चुश्वाहवक्षितिम् ॥ ७४ ॥ त्वक्वैरित्यादि--- धूम्राक्षसम्वन्धिनो नृभुजो राक्षसाः त्वकैः सन्नाहैः । त्वचं त्रायन्त इति देहान् सविव्ययुः छादितवन्तः । 'व्येञ् संवरणे' १ अमोघेनेत्यर्थः। २ नॄनू भुञ्जत इति अन्न विप।