सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्मः ] तिङ्काण्डम् । (३८९) - तत इत्यादि — ततो ध्यानानन्तरं तदागमनवायुवेगाच्छैलैर्विजघटे विघ- टितम् । भावे लिट् | अम्बुधिरुद्वेलं वेलामतिक्रम्य पुप्लुवे गतः, वृक्षेभ्यः 'सकाशात् पुष्पैच्युच्युते च्युतम्, दिशश्च भासुराः सुपर्णपक्षप्रभाभिः प्रभासन- शीला: सत्यो विरेजुः शोभन्ते स्म । 'फणां च सप्तानाम् ||६|४|१२५ | इत्येत्वपक्षे रूपम् । तत्र वेत्यनुवर्तते ॥ ६६ ॥ जगाहिरेऽम्बुधिं नागा ववौ वायुर्मनोरमः । तेजांसि शंशमाञ्चक्रुः शरबन्धा विशिश्लिषुः ॥ ६७ ॥ , जगाहिरे इत्यादि--नागा भयादम्बुधिं जगाहिरे प्रविष्टाः, वायुस्तत्प्रभवो ववौ वाति स्म, तेजांसि रत्नादीनां शंशमाञ्चक्रुः अत्यर्थं प्रशान्तानि । शमेर्य- लुगन्तस्य रूपम् । एवं च कृत्वा अनुप्रयोगे परस्मैपदम् । शरबन्धा विशिलि बुर्विश्लिष्टाः । दूरत एव तत्प्रभावात् ॥ ६७ ॥ भ्रे जिरेऽक्षतवद् योधा लेभे संज्ञां च लक्ष्मणः । विभीषणोऽपि बभ्राजे गरुत्मान् प्राप चान्तिकम् ॥ ६८ ।। - भ्रेजिर इत्यादि — अक्षतवत् अक्षता इव योधा थ्रेजिरे दीप्यन्ते स्म । 'फणां च सप्तानाम् |६|४|१२५|' इत्येत्वपक्षे रूपम् । संज्ञां चेतनां लक्ष्मणो लेभे प्राप्तवान्, विभीषणोऽपि बभ्राजे संपन्ना मे मनोरथा इति मेन इत्यर्थः । अनेत्वपक्षे रूपम् । अन्तिकं च रामलक्ष्मणयोर्गरुत्मान् प्राप | गरुतः पक्षिणस्तेऽनुजीवितयास्य सन्तीति मतुप् । यवादेराकृतिगणत्वात् 'झय: |८|२|१०|' इति वत्वं न भवति ॥ ६८ ॥ संपस्पर्शाsथ काकुत्स्थौ जज्ञाते तो गतव्यथो । तयोरात्मानमाचख्यौ ययौ चाऽथ यथागतम् ॥ ६९ ॥ ंपस्पशैत्यादि – अनन्तरं गरुत्मान् काकुत्स्थौ राघवौ संपरस्पर्श स्पृष्टवान्, तौ च पृष्ट गतव्यथी जज्ञाते, जातौ, तयोः काकुत्स्थयोरात्मानमाचख्यौ गरुत्मानहमिति कथितवान् । 'वालिटि |२|४|५५|' इति चक्षिङः ख्यान | ययौ चापि यथागतं यथा तेनागतं तथा गतवान् ॥ ६९ ॥ 5 स्वेनुस्तित्विषुरु द्येमुरुच्चख्नुः पर्वतांस्तरून् ॥ वानरा दद्रमुश्चाथ सङ्ग्रामं चाशशासिरे ॥ ७० ॥