पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३८८) भट्टिकाव्ये जयमङ्गलासमेते- [ चतुर्दश:- चिचेतेत्यादि---- तत् कृच्छ्रं शेरबन्धदुःखं रामश्चिचेत ज्ञातवान् । 'चिती संज्ञाने' इत्युदात्तेत् । शुचा शोकेन ओषांचक्रे देहे । कर्मणि लिट् । 'उपविद- जागृभ्योऽन्यतरस्याम् | ३|१|३८|' इत्याम् । स च मन्युः शोकः अस्य रामस्य समापिप्ये वृद्धिं गतः । 'ओप्यायी वृद्धौ ।' तस्य लिटि 'प्यायः पी ।६।१।२८।१ इति पीभाव: । 'एरनेकाचः |६|४|८२ |' इति यण् । लक्ष्मणं च विरुराव शब्दितवान् वत्स ! जीवसीति || ६२ ॥ समीहे मर्तुमानचें तेन वाचाऽखिलं बलम् । आपपृच्छे च सुग्रीवं स्वं देशं विससर्ज च ॥ ६३ ॥ - समीह इत्यादि — मर्तु प्राणांस्त्यक्तुं समीहे इच्छति स्म । तेन रामणाखिल समस्तं बलं वाचा आनर्चे पूजितम् भवद्भिः साध्वनुष्ठितम् अस्मद्भाग्यमत्रा- घ्यतीति । कर्मणि लिट् । 'तस्मान्नुड् द्विहः |७|४|७१ |' इति नुट् । सुग्री चापपृच्छे आपृच्छति स्म । आमन्त्रितवानित्यर्थः । एहि तावदर्शनं मे देहि परिष्वजस्वेति । ‘आङि नुप्रच्छयोरुपसङ्ख्यानम् इति तङ् । स्वं च देशं किष्किन्धां विससर्ज प्रहितवान् || ६३ ॥ आदिदेश स किष्किन्धां राघवौ नेतुमङ्गदम् | प्रतिजज्ञे स्वयं चैव सुग्रीवो रक्षसां वधम् ॥ ६४ ॥ - आदिदेशेत्यादि - सुग्रीवो राघवौ किष्किन्धां नेतुमङ्गदमादिदेश, स्वयं च रक्षसां विनाशं प्रतिजज्ञे अहमेव व्यापादयामीति । 'सम्प्रीतभ्या- माध्याने | १|३|४६|' इति तङ् | सकर्मकार्थं वचनम् ॥ ६४ ॥ 'नागास्त्रमिदमे तस्य विपक्षस्तार्क्ष्यसंस्मृतिः । विभीषणादिति श्रुत्वा तं निदध्यौ रघूत्तमः ॥६५॥ नागास्त्रमित्यादि — नागास्त्रमिदं न शराः, एतस्य च विपक्षः शत्रुस्तोर्क्ष्य- संस्मृति: गरुङसंस्मरणं यत्संस्मरणादेवास्य शान्तिरिति । एवं विभीषणाच्छ्रुत्वा रघूत्तमो राघवस्तार्क्ष्य निदध्यौ ध्यातवान् ॥ ६५ ॥ ततो विजघटे शैलैरुल लुवेऽम्बुधिः । वृक्षेभ्यश्चुच्युते पुष्पैर्विरेजुर्भासुरा दिशः ॥ ६६ ॥ 10 १ नागरूपबाणकृतपाशवश्यत्वरूपं क्लेशम् । २ 'गरुत्मान् गरुडस्तार्क्ष्यः इत्यमरः ।