पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: 1 तिङ्काण्डम् । (३८७) विमुक्तस्तातो दशरथो न जिजीव न जीवितः । त्वयि मृतेऽपि जीवन्त्या मया न किंचित्प्रयोजनम् । अणकभार्यया । 'पापाणके कुत्सितः |२|११५४|१ इति समासः ।। ५८ ।। सा जुगुप्सान् प्रचक्रेऽसून् जगर्हे लक्षणानि च । देहभाञ्जि ततः केशान् लुलुञ्च लुलुठे मुहुः ॥ ५९ ॥ सा जुगुप्सानित्यादि - सा सीता पूर्वोक्ककारणादेव असून् प्राणान् जुगुप्सान् प्रचक्रे निन्दितान् कृतवती । जुगुप्स्यन्त इति घञ | तदन्तस्य सनि रूपम् । आमि प्रत्यये तु प्रचक्र इत्यनुप्रयोगो न घटते । देहभाजि शरीरस्थान क्षणानि । अवैधव्यसूचकानि च जगहें गर्हते स्म 'गई गल्भ कुत्सने ।' मुहुः केशान् लुलुञ्च अपनीतवती, तथा लुलुठे पतिता ॥ ५९ ॥ जग्लौ दध्यौ वितस्तान क्षणं प्राण न विव्यये । दैवं निनिन्द चक्रन्द देहे चाऽतीव मन्युना ॥ ६० ॥ जग्लावित्यादि- - शोकभारात् जग्ला ग्लानिं गता, दध्यौ ध्यातवती, पुनः किं मया द्रष्टव्योऽसीति । वितस्तान पीडया शब्दं कृतवती । 'स्तन शब्दे' । न प्राण न मूच्छिता । न जिजीव निःसंज्ञत्वात् । 'अन प्राणने' । 'अत आदेः |७|४|७०।' इति दीर्घत्वम् । विव्यथे लब्धसंज्ञा पीडिता । 'व्यथो लिटि |७|४|६८|' इत्यभ्यासस्य सम्प्रसारणम् । दैव निनिन्द निन्दितवती । दैव ! विरूपमाचरितं त्वयेति । चक्रन्द्र रुदिता । पुनर्मन्युना अतीव शोकेन देहे दग्धा । कर्मणि लिट् ।। ६० ।। आश्वासयाञ्चकाराथ त्रिजटा तां निनाय च । ततः प्रजागराञ्चकुर्वानराः सविभीषणाः ॥ ६१ ॥ आश्वासयामित्यादि--अथानन्तरं त्रिजटा रावणभगिनी तां सीता- माश्वासयाञ्चकार आश्वासितवती । विष्णुरसौ दादशरथिः कथमस्य विरूपं भविष्यतीति । निनाय च तस्मात्पुष्पकान्नीतवती, तत उत्तरकालं वानरा विभी- यणेन सह प्रजागरांचक्र: आलोचनां कृतवन्तः । अत्रानुप्रयोगे नात्मनेपदं पूर्वस्यानात्मनेपदत्वात् ॥ ६१ ॥ चिचेत रामस्तत् कृच्छ्रमोषाञ्च शुचाथ सः । मन्युश्चाऽस्य समापिप्ये विरुराव च लक्ष्मणम् ॥ ६२ ॥