पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३८६ ) भट्टिकाव्ये जयमङ्गलासमेतें- [ चतुर्दशः - इति विकल्पेन द्विकर्मकता । तस्याः सीताया नेत्रे मिमीलतुः मिमीलिते | ‘मील निमेषणे ।' पुष्पकोदरे पुष्पकमध्ये | मूर्छया लुलुठे लुठिता ॥५४॥ माणा दध्वंसिरे गात्रं तस्तम्भे च प्रिये हते । उच्छश्वास चिराद् दीना रुरोदाऽसौ ररास च ॥ ५५ ॥ प्राणा इत्यादि - - प्रिये रामे हते प्राणा वायवः दध्वंसिरे ध्वस्ताः, गात्रं च तस्तम्भे काष्ठवन् निश्चलमभूत् । 'टभि स्काभ प्रतिबन्धे । ' चिरा- दुच्छश्वास उच्छृंसितवती, असौ लब्धसंज्ञा दीना दु:खिता रुरोद रुदितवती, बरास च वक्ष्यमाणं च विलापं कृतवती ।। ५५ ।। 'लौहबन्धैर्बबन्धे नु किं वज्रेण विनिर्ममे । मनो मे न विना रामाद् यत् पुस्फोट सहस्रधा ॥ ५६ ॥ लौहबन्धरित्यादि -- लोहस्येमे लौहाः तैर्बन्धैर्मनो हृदयं मम बबन्धे चम् | कर्मणि लिट् । नुशब्दो वितर्के । उते त्रज्रेण विनिर्ममे निर्मि- तम् । 'माङ् माने' इत्यस्मात्कर्मणि लिट् द्विवचने हुस्खवे 'आतो लोप इटिं च |६|४|६४||' 'इत्यालोपे च रूपम् । यद्यस्मात् विना रामात् रामेण विना । 'पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् | २|३|३२|| इति पञ्चमी । न पुस्फोट न स्फुटितं सहस्रधा | 'संख्याया विधार्थे धा | ५ | ३ | ४२|| इति धा || ५६ ॥ उत्तेरिथ समुद्रं त्वं मदर्थेऽरीञ्जिाहसिथ । ममर्थ चाऽतिघोरां मां धिग् जीवितलघुकृताम् ॥ ५७ ॥ उत्तेरिथेत्यादि--मदर्थे मन्निमित्तं समुद्रमुत्तेरिथ उत्तीणोऽसि 'हृफल - भजत्रपश्च |६|४|१२२।' ' इति एत्वाभ्यासलोपौ । तथा अरीन् जिहिंसिथ निहतवानास । थलि रूपम् । यतो मदर्थे ममर्थ मरणावस्थां गतो- ऽसि । अतोऽतिवोरामतिरौद्रां मां धिक् जीवितलघूकृतां जीवत्या- जितमहत्त्वात् ॥ ५७ ।। न जिजीवाऽसुखी तातः प्राणता रहितस्त्वया | मृतेऽपि त्वयि जीवन्त्या किं मयाऽणकभार्यया ॥ ५८ ॥ न जिजीवेत्यादि- त्वया प्राणता जीवता सता । 'अन प्राणने' | रहितो - १ इमपि वितर्फे, 'आहो उताहो किमुत विकल्पे किं किमूत च । इत्यमरः ।