पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । दुद्राव अभिमुखं गतः, जुघुरे च शब्दं कृतवान्, अतिभैरवम् कम् । 'घुर भीमार्थशब्दयोः' इत्यनुदात्तेत् ॥ ८२ ॥ पस्पन्दे तस्य वामाक्षि सस्यमुश्चाशिवाः खगाः । तान्वन्त्राजावमत्यासौ बभासे च रणे शरैः ॥ ८३ ॥ (३९३ ) अतिभयान- - पस्पन्द इत्यादि - तस्याकम्पन स्यानिमित्तत्वसूचकं वामाक्षि पस्पन्दे स्पन्दि- तम्, अशिवाश्च अशिवसुचकाः खगोः, सस्यमुः शब्दं कृतवन्तः । अने- त्वपक्षे रूपम् । तान् खगान् अवमत्यावज्ञायासौ वव्राजं गतः, शरैश्च बभासे शोभितम् ॥ ३ ॥ रणे खमूयुर्वसुधामूवुः सायका रज्जुवत्तताः । तस्माद्वलैरपत्रेपे पुप्रोथास्मै न कश्चन ॥ ८४ ॥ खमाकाश- खमित्यादि ---- तेन सायका रज्जवत्तता विस्तृताः सन्तः मृयुरावृतवन्तः । वसुधां च ऊवुश्छादितवन्तः । 'वेञ् तन्तुसन्ताने' तस्य लिटि वयिरादेशः ।‘ वश्चास्यान्यतरस्यां किति | ६|१|३९|| इति यकारस्य वका- रादेशः । तस्मादिति तमकम्पनं वीक्ष्य | ल्यब्लोपे पञ्चमी । त्रेपे लज्जितम् । भाव लिट् । ‘तॄफलभजत्रपञ्च | ६ | १४ | १२२ ।। इति एत्वाभ्यासलोपौ । अस्मै अकम्पनाय न कश्चित् पुप्रोथ न प्रभवति स्म ।' प्रोथ पर्याप्ती' इति स्वारेतेत् । अत्र कर्तुः क्रियाकलायोगान्नात्मनेपदम् । 'नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्च ।२।३।१६।' इत्यत्र अलंशब्दस्य पर्याप्त्यर्थस्य ग्रहणात् तदर्थयोगे चतुथा ||८४ ॥ स भस्मसाच्चकारारीन्दुदाव च कृतान्तवत् । चुक्रोध मारुतिस्तालमुच्चख्ने च महाशिखम् ॥ ८५ ॥ स भस्मसादित्यादि--- सोऽकम्पनः अरीन् भस्मसाञ्चकार कार्येन भस्म- भूतान् कृतवान् । कृतान्तवत् यम इव दुदाव सुष्टुः पीडितवान् । 'टुटु उपतापें ।' तं दृष्ट्वा मारुतिश्चुक्रोध क्रुद्धः । तालं चः वृक्षं महाशिखमत्युच्छायम् उच्चख्ने उत्खातवान् । अत्र कतुः क्रियाफलयोगात् तङ् ।। ८५ ।। यमायाकम्पनं तेन निरुवाप महापशुम् । बभ्रज्ज निहते तस्मिञ्शोको रावणमग्निवत् ॥ ८६ ।। यमायेत्यादि ---तेन तालेन स चाकम्पनं महाँपशुमिव यमाय निरुवाप दत्त- १ पक्षिणः काकगृध्रादयः । 'शिवा' इति पाठान्तरे शृगाला इत्यर्थ: । २'कृतान्तो यमुनानाता' इत्यमरः । 'तेन तुल्यं क्रिया चेद्वतिः ५ | १ | ११५ ।' इति वतिः । एतेनास्य दानेन यमदेवताकयागनिष्पत्तिः सूचिता ।