पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । ङ्गवत्पतङ्गैरिव वीरैमंत्रे मृतम् । भावे लिट् | हाहेति ऋशे रुदितम् ॥ ४२ ॥ L तिरोबभूवे सूर्येण प्रापे च निशयाऽऽस्पदम् । च जग्रसे कालरात्रीव वानरान् राक्षसांश्च सा ॥ ४३ ॥ ( ३८३ ) च विचु- • तिर इत्यादि --- सूर्येण तिरोबभूवे तिरोभतम् । अस्तं गतमित्यर्थः । भावे लिट् | निशया निशा च आस्पदं प्रतिष्ठा । 'आस्पदं प्रतिष्ठायाम् | ६ | १ | १९४६।' निपातनम् । प्रापे प्राप्तम् । कर्मणि लिट् । सा च निशा काल- रात्रीव कालः कृतान्तस्तेन प्रयुक्ता रात्रीति शाकपार्थिवादित्वान्मध्यमपदलोपी समासः । कृदिकारादक्तिनः । इति ङीष् । वानरान् राक्षसांश्च जग्रसे ग्रसते स्म भक्षितवतीत्यर्थः ॥ ४३ ॥ चुकोपेन्द्राजेदत्युग्रं सर्पास्त्रं चाजुहाव सः । आजुहुवे तिरोभूतः परानीकं जहास च ॥ ४४ ॥ 'चुक्रोपेत्यादि- --रामव्यापारं दृष्ट्वा इन्द्रजित् तिरोहितः सन्चुकोप कुपि- तवान, अत्युमं च सर्पास्त्रं सर्पमस्त्रमिव आजुहाव आहूतवान्. आह्व- यते: शब्दे वर्तमानस्य 'अभ्यस्तस्य च |६||१|३३|| इति द्विवेचनात् प्राक् सम्प्रसारणं ततो द्विवचनम् । परानीकं च रामबलम् आजुहुवे स्पर्धते स्म । 'स्पर्धायामाङः । १ । ३ । ३१ ।' इत्यात्मनेपदम् । पूर्व- वत्सम्प्रसारणम् । यजादित्वाद्वा । तत उवङादेशः । जहास च विहासितवान् ॥ ४४ ॥ बबाधे च बलं कृत्स्नं निजग्राह च सायकैः । उत्ससर्ज शरांस्तेऽस्य सर्पसाच्च प्रपेदिरे ॥ ४५ ॥ बबाध इत्यादि-बबाधे च अभिभूतवान् । 'बाट विलोडने' निजग्राह च निगृहीतवान्, सायकैः लोहयुक्तैः सर्पास्खैः उत्ससर्ज शरान् क्षिप्तवान्, ते उत्सृष्टाः शरा अस्य बलस्य सर्पसात् । 'विभाषा साति कायें | ५॥४॥५२॥ इति कात्यै सातिः । सम्प्रपेदिरे सम्प्रपद्यन्ते स्म ॥ ४५ ॥ आचिचाय स तैः सेनामाचिकाय च राघवौ । बभाण च न मे मायां जिगायेन्द्रोऽपि किं नृभिः ॥ ४६ ॥ आश्चिचायेत्यादि-स इन्द्रजित् सपास्त्रैवानराणां सेनामाचिचाय छन्नवान् । “विभाषा चेः । ७ । ३ । ५८ ।' इति अकुत्वपक्षे रूपम् । राघवौ च