( ३८४ ) भट्टिकाव्ये जयमङ्गलासमेते- रामलक्ष्मणावाचिकाय । कुत्वपक्षे रूपम् । बभाण च [ चतुर्दश:- भणति स्म । मम ।७।३। TUBER मायामिन्द्रोऽपि न जिगाय न जितवान् । 'सँल्लिटोर्जेः । ७ । ३ । ५७ ।” इति कुत्वम् । किं नृभिः न किंचित्प्रयोजनमित्यर्थः ॥ ४६ ॥ आचिक्याते च भूयोऽपि राघवौ तेन पन्नगैः । तौ मुमुहतुरुद्विग्नौ, वसुधायां च पेततुः ॥ ४७ ॥ आचिक्यात इत्यादि --तेनेन्द्रजिता भूयोऽपि राघवावाचिक्याते छन्नौ । कर्मणि लिट् । तौ पाशबद्धौ मुमुहतुः मोहं गतौ । उद्विग्नौ समीहितानिष्पत्तेः । वसुधायां च पेततुः पतितौ । बन्धपरवशकृतत्वात् ॥ ४७ ॥ ततो रामेति चक्रन्दुस्त्रेसुः परिदिदेविरे || निशश्वसुश्च सेनान्यः, प्रोचुधिंगिति चात्मनः ॥ ४८ ॥ तत इत्यादि-ततः पतनादनन्तरं सेनान्यः सुप्रीवादयः । 'एरनेका- चोऽसंयोगपूर्वस्य । ६ ।४ । ८२ |' इति यण् । रामेति नामग्राहं चक्रन्दुः रुदि- तवन्तः त्रेसुः भीताः परिदिदेविरे परिदेवनं कृतवन्तः । 'देव देवने' अनुदात्तेत् । निशश्वसुः कोष्णं निश्वासानुत्ससृजुः, आत्मनश्च घिगिति प्रोचुः गर्हितवन्तः । 'उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु' इति घिग्योगाद्वितीया ॥ ४८ ॥ मन्युं शकुर्न ते रोखुं नास्त्रं संरुरुधुः पतत् । विविदुर्नेन्द्र जिन्मार्गे परीयुश्च प्लवङ्गमाः ॥ ४९ ॥ मन्युमित्यादि---मन्युं शोकं रोडुं वारितुं न शेकुः न पारितवन्तः । अस्रं च लोचनेभ्यः पवत् न संरुरुधुः न संरुद्धवन्तः, इन्द्रजितो मार्गम् न विविदुः न ज्ञातवन्तः, कासौ तिष्ठति इति । प्लङ्गमाश्च परीयुः समन्ताद्गत वन्तः । क्कासावगमदिति ॥ ४९ ॥ दघावाद्भिस्ततश्चक्षुः सुग्रीवस्य विभीषणः | विदांचकार धौताऽक्षः स रिपुं खे ननर्द च ॥ ५० ॥ दधावेत्यादि -- ततोऽनन्तरं विभीषणः सुप्रीवस्य मन्त्रपूताभिरद्भिश्चक्षुर्द- घाव प्रक्षालितवान्, सुप्रीवः घौताक्षः प्रक्षालितचक्षुः । 'बहुव्रीहौ लवेनं १ विलापम् । २ ईषदुष्णं यथा तथा | ३ स्वस्वदेहान् । ४ अश्रु । ५ वानराः । दुत्या गच्छन्तीति तथोक्ताः । 'गमश्च ३ | २ | ४७ ।' इति खच् । [प्लवङ्गमौ ।' इत्यमरः । 'कपिभेको
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४२२
दिखावट