पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ चतुर्दशः- (३८२) भट्टिकाव्ये जयमङ्गलासमेते- ही चित्रं लक्ष्मणेनोदे रावणिश्च तिरोधे । विचकार ततो रामः शरान् संतत्रसुषिः ॥ ३९ ॥ ही चित्रमित्यादि — हीति विस्मये । चित्रमाश्चर्यमिति लक्ष्मणनोदे उक्तम् । वदेर्भावे लिट् । यजादित्वात्सम्प्रसारणम् । रावणिः इन्द्रजित रावणस्यापत्यम् । 'अत इञ् । ४ । १ । ९५ ।' तिरोदधे अदृश्योऽभूत् । ततः अदर्शनानन्तरं रामः शरान् विचकार विक्षिप्तवान् ।‘कृ त्रिक्षेपे'। द्विषःसंत- त्रसुः संत्रस्ताः ॥ ३९ ॥ विभिन्ना जुधुरुघोरं जक्षुः ऋव्याशिनो हतान् । चुरच्योत व्रणिनां रक्तं छिन्नाश्चेदः क्षणं भुजाः ॥ ४० ॥ विभिन्ना इत्यादि --शरैर्विभिन्ना जुघुरुः घोरं भीमशब्दं कृतवन्तः । 'घुर भीमार्थ-शब्दयोः ।' क्रव्याशिनः शृगालादयो हतान् विनष्टान् जक्षुः भक्षित- वन्तः । 'लिट्यन्यतरस्याम् ।२।४ । ४० ।' इत्यदर्घस्ल । उपधालोपः । ‘खरि च । ८ । ४ । ५५ ।' इति चर्त्वम् । व्रणिनां शरैः कृतव्रणानां रक्तं चुश्च्योत व्रणादित्यर्थात् कर्तरि लिटः पित्त्वादकित्त्वे गुणः। भुजाश्छिन्नाः स 'क्षणमात्रं चेलुश्चलिताः ॥ ४० ॥ सन्तः कृत्तैरपि दृढकोधो वीरवर्न तत्यज । पलायांचक्रिरे शेषा जिहियुः शूरमानिनः ॥ ४१ ॥ कृतैरित्यादि - वीरवः शरमुखैः कृत्तैरपि छिन्नैरपि दृढो घनः क्रोधोन तत्यजे न त्यक्तः । दृष्टौष्ठभ्रकुट्यादीनां तथावस्थानात् । कर्मणि लिट् पलायांचक्रिरे पलायिताः ||३||३७|' इत्याम् । 'उपसर्ग- स्यायतौ । ८ । २ । १९ ।' इति लत्वम् । शेषा ये न पलायिताः ते शूर- मानिनः । 'मनः | ३|२|८२ |' इति णिनिः । जिहियुः लज्जन्ते स्म ॥ ४१ ।। राघवो न दयाञ्चके दधुधैर्य न केचन | मम्रे पतङ्गवद् वीरैर्हाहेति च विचुक्रुशे ॥ ४२ ॥ कृतवान् । पूर्वव- राघव इत्यादि--राघवो न दयांचक्रे न दयां दाम् । न' केचन न केचित् धैर्ये दधुः धारितवन्तः । सर्व एव अहमहमिकया प्रवृत्ताः । यदि वा न केचन केचिद्धैर्ये न दधुः अपि तु दधुरेव । पत- १ आवेगातिशये ह्येवम्भवतीति बोध्यम् । एवं परन्नाऽपि ।