पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: 1 1 तिङकाण्डम् । विरूपाक्षो जहे प्राणैस्तृढः सौमित्रिपत्रिभिः । प्रमोचयाञ्चकाराऽसून् द्विविदस्त्वशनिप्रभम् ॥ ३५ ॥ O सौमित्रिपत्रिभिर्लक्ष्मणशरैः विरूपाक्ष इत्यादि - विरूपाक्षो राक्षसः राक्षसः तृढ हत इत्यर्थ: । 'तृहू हिंसायाम्' इति तौदादिकस्यादित्त्वान्निष्ठाया- मिप्रीतषेधंः । प्राणैर्जहे त्यक्तः कर्मणि लिट् । द्विविदो वानरः अशनिप्रभं राक्षसं प्राणान् प्रमोचयाञ्चकार त्याजितवान् । मुचेर्ण्यन्तस्य लिटि रूपम् ॥ ३५ ॥ गदा शक्रजिता जिध्ये तां प्रतीयेष वालिजः । रथं ममन्थ सहयं शाखिनाऽस्य ततोऽङ्गदः || ३६ ॥ (३८१) गदेत्यादिशक्रजिता इन्द्रजिता गदा जिव्ये प्रहिता । हिनोतेः कर्मणि लिट् । 'हेरचाङ । ७ । ३ । ५६ ।। इति कुत्वम् । तां गदां वालिजोऽङ्गदः प्रतीयेष प्रतीष्टवान् । इषेः 'अभ्यासस्यासवर्णे । ६ ।४ । ७८ ।' इतीयङ् । ततो- ऽनन्तरं अस्य शक्रजितो रथं सहयं साधं शाखिना तरुणा ममन्थ चूर्णित-- वान् । 'मथि हिंसासंकेशयोः ।। ३६ ॥ तत् कर्म वालिपुत्रस्य दृष्ट्वा विश्वं विसिष्मिये । संत्रेस राक्षसाः सर्वे बहु मेने च राघवः ॥ ३७ ॥ तत्कर्मेत्यादि---तत्कर्म रथस्य चूर्णनं दृष्ट्वा विश्वं त्रैलोक्यं विसिष्मिये विस्मितम् । राक्षसाः सर्वे संत्रेसुः । राघवश्च बहु मेने । अङ्गदं लाघितवानित्यर्थः ॥ ३७ ॥ सुग्रीवो मुमुदे देवाः साध्वित्यूचुः सविस्मयाः । विभीषणोऽभितुष्टाव प्रशशंसुः प्लवङ्गमाः ॥ ३८ ॥ - ु सुग्रीव इत्यादि – सुप्रीवो मुमुदे हृष्टवान्, देवाः साध्वित्यूचुः, 'वचि-. स्वपियजादीनां किति | ६|१|१५|' इति सम्प्रसारणम् । विभीषणोऽभितुष्टाव अभिष्टुतवान् । 'टुन् स्तुतौ' । 'उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभति- स्थासेन यसेध सिचस जस्व जाम् | ८|३|६५|| इति षत्वम् । प्लवङ्गमाः प्रशशंसुः प्रशंसां कृतवन्तः ॥ ३८ ॥ १ 'यस्य विभाषा |७|२|१५|' इत्यनेनेति' बोध्यम्' | २ अयं च शब्दो.. यौगिको रूढश्च । तथा च वज्रसमाच्छेद्यशरीरं तत एव तन्नामानं च