पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३८०) भट्टिकाव्ये जयमङ्गलासमेते- [ चतुर्दश:- म्लानाः। ‘ग्लै म्लै हर्षक्षये’ । जग्लुः हर्षक्षयं गताः । लुलुठिरे भूमौ लुठन्ते स्म । 'रुठ लुठ प्रतिघाते' तुदादावात्मनेपदी पठ्येते । मुमूच्छु: मोहमुप- गताः । रक्तं ववसुः गीर्णवन्तः । ततृषुः तृष्यन्ति स्म । एतत् संकुल- युद्धम् ॥ ३० ॥ सम्पातिना प्रजङ्गस्तु युयुधेऽसौ द्रुमाहतः । चकम्पेऽतीव चुक्रोश जीवनाशं ननाश च ॥ ३१ ॥ सम्पातिनेत्यादि----प्रजङ्घो नाम राक्षस: सम्पातिनाम्ना : वानरेण सह युयुधे युध्यते स्म । असौ प्रजको द्रुमाहतश्चकम्पे कम्पते स्म । अतीव अत्यर्थं चुशोति स्म । जीवनाशं ननाश जोवेन विनष्ट: । 'कत्रों- जीवपुरुषयोर्नशिवहोः । ३ | ४ | ४३ ।' इति णमुल ॥ ३१ ॥ उच्चस्नाते नलेनाssजौ स्फुरत्प्रतपनाक्षिणी । जम्बुमाली जहाँ प्राणान् ग्राव्णा मारुतिना हतः ॥ ३२ ॥ उच्चखनाते इत्यादि--- स्फुरन् चलन् प्रतपनो नाम राक्षसः तस्याक्षिणी, स्फुरतीव प्रतपनस्याक्षिणी नयने नलेन वानरेण उच्चखनाते उत्खाते । कर्माणि लिट् || 'गमहन जनखनघसां लोप: कित्यनङ । ६ । ४ । ९८ ।' इत्युपधालोपः । मारुतिनां हनूमता ग्राव्णा पाषाणेन हतो जम्बुमाली राक्षसः प्राणान् जहाँ त्यक्तवान् ॥ ३२ ॥ मित्रघ्नस्य मचुक्षोद गदयाऽङ्गं विभीषणः । सुग्रीवः प्रघसं नेभे बहून् रामस्ततर्द च ॥ ३३ ॥ मित्रघ्नस्येत्यादि--.-मित्रन्नस्य राक्षसस्य अङ्गं गदया विभीषणः प्रचु- क्षोद । प्रघसं नाम राक्षसं सुग्रीवो नेभे हिंसितवान् । 'णभ तुभ हिंसा- याम्' इत्यनुदात्तेत् । रामश्च बहून् राक्षसान् ततर्द हिंसितवान् । 'उतृ- दिर् हिंसाऽनादरयोः ॥ ३३ ॥ वज्रमुष्टेर्विशिश्लेष मैन्देनाऽभिहतं शिरः । नीलश्चकर्त चक्रेण निकुम्भस्य शिरः स्फुरत् ॥ ३४ ॥ वज्रमुष्टेरित्यादि----वज्रमुष्टे राक्षसस्य शिरो मैन्देन वानरेण अभिहतं सत् विशिश्लेष विश्लिष्टम् । निकुम्भस्य शिरः स्फुरत् चलत् । नीलो वान- रश्चक्रेण चकर्त छिन्नवान् ॥ ३४ ॥