पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ]] तिङ्काण्डम् | (३७९) लाङ्गूलरित्यादि-लागूलैर्लोठया चक्रुः लागूलैपादितवन्तः । 'रुठठ प्रतिघाते' परस्मैपदिनो ण्यन्तस्य रूपम् | तलैर्हस्ततलैः संक्षयं विनाशं निन्युः नीतवन्तः । नखैश्च चकृतुरुच्छिन्नवन्तः । 'कृती च्छेदने' क्रुद्धाः वानराः बलात् हठात् क्षितौ पिपिपुश्चूर्णितवन्तः ॥ २६ ॥ 1111 TEBURT सम्बभूवुः कबन्धानि प्रोहुः शोणिततोयगाः | तेरुर्भटास्यपद्मानि ध्वजैः फेर्नैरिवाबमे ॥ २७ ॥ संबभूवुरित्यादि -- कवन्धानि संवभूवुः संभूतानि । प्रतिसहस्रं व्यापाद- नात् । कबन्धस्यैकस्योत्पादनात् । शोणिततोयगा: शोणितनद्यः प्रोहः प्रकर्षेण प्रवृत्ताः । वहेर्यजादित्वात् सम्प्रसारणम् । भटास्यपद्मानि योधमुखपद्मानि तेरु ः प्लुतानि । ' तृफलभजत्रपञ्च | ६|४|१२२|' इति एत्वाभ्यासलोपौ । फेर्नै- रिव ध्वजैः शोणितनदीषु आबभे शोभितम् । भावे लिट् ॥ २७ ॥ रक्तपढे गजा: सेदुर्न प्रचक्रमिरे रथाः । निममज्जुस्तुरङ्गाश्च गन्तुं नोत्से हिरे भटाः ॥ २८ ॥ रक्तपङ्के इत्यादि-- रक्तपके गजा: सेदुः निषण्णोः । रक्तपङ्कस्य बहुल- त्वात् । तथा रथा न प्रचक्रमिरे न गन्तुमारब्धाः । 'प्रोपाभ्याम् | १|३|४२’ इत्यात्मनेपदम् | तुरङ्गा निममज्जुः निमनाः । भटांश्च गन्तुं नोत्से हिरे नो: सहन्ते स्म ।। २८ ।। कोटचा कोट्या पुरद्वारमर्के रुरुधे द्विषाम् । प्री षट् त्रिंशद्ध रिकोटचश्च निवनुर्वानराधिपम् ॥ २९ ॥ कोटचेत्यादि-द्विपामेकैकं पुरद्वारं वानराणां कोट्या कोट्या रुरुधे रुद्धम् । कर्मणि लिट् । पत्रिंशद्धरिकोट्यः वानरकोट्यो वानराधिपं सुग्रीवं निवः आवृत्य स्थिताः ॥ २९ ॥ तस्तनुर्जह्वलर्मम्लुर्जग्लुर्लुलुठिरे क्षताः । श्रीधान्य मुमूर्च्छर्वषम् रक्तं ततृषुश्चोभये भटाः ॥ ३० ॥ तस्तनु रित्यादि--- उभये भटा रामरावणसंबन्धिनो योधाः क्षताः स्ततनुः स्तनितवन्तः । जह्वलुः चलिताः । 'ह्वल झल चलने' । मम्लुः सन्त- १ उपविष्टाः । २ योद्धारश्च । 16