भट्टिकाव्ये जयमङ्गलासमेते- रावणः शुश्रुवाञ्शत्रून् राक्षसानभ्युपेयुषः । स्वयं युयुत्सयाञ्चके प्राकाराग्रे निषेदिवान् ॥ २२ ॥ रावण इत्यादि-राक्षसान भ्युपेयुषोऽभिमुखमुपगतवन्तो ये शत्रवो रामादयस्तान् रावणः शुश्रुवान् | स्वयं च प्राकाराग्रे निषेदिवान् निषण्णः सन् । 'भाषायां सदवसवः |३|२|१०८|' इति कसुः । युयुत्सया चक्रे योद्धुमिच्छन्तं प्रयोजितवानित्यर्थः । सन्नन्तण्यन्तस्य रूपम् ॥ २२ ॥ निरासू राक्षसा बाणान् प्रजहुः शूलपट्टिशान् । असींश्च वाहयाञ्चक्रुः पाशैश्वाचकृपुस्ततैः ॥ २३ ॥ राक्षसा वाणान्निरासुः क्षिप्तवन्तः MATAPA निरासुरित्यादि- रावणप्रचोदिता शूलपट्टिशान् शुलसहितान् पादृशान् । शाकपार्थिवादित्वात्तत्पुरुषः । द्वन्द्वेतु ‘जातिरप्राणिनाम् । २।४।६।' इत्येकवद्भावः स्यात् । तान् प्रजहुः त्यक्तवन्तः । ‘ओहाक् त्यागे ।’ असींश्च खड्गान् वाहयाञ्चक्रुः व्यापारितवन्तः । ण्यन्तस्य रूपम् । पाशैस्ततैर्विस्तृतैः आचकृषुः आकृष्टवन्तः । कित्त्वे गुणप्रतिषेधः ||२३|| भल्लैश्च बिभिदुस्तीक्ष्णैर्विविधुस्तोमरैस्तथा । गदाभिश्चूर्णयाञ्चक्रुः शितैश्चक्रश्च चिच्छिदुः ॥ २४ ॥ भल्लॆरित्यादि—भलैर्बिभिदुर्विदारितवन्तः । तीक्ष्णैस्तथा तोमरैर्विविघुस्ता- डितवन्तः । व्यधेः ‘ग्रहिज्यावयिव्य धिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च ।६।१।१६।' इति सम्प्रसारणम् । गदाभिश्च चूर्णया चक्रुः चूर्णितवन्तः । ‘सत्यापपाशरूपवीणातूलश्लोक से नालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् ।३।११ २५ ।' इति णिच् । 'चूर्ण प्रेरणे' इति चौरादिकत्वाद्वा । चिच्छिदुः च्छिन्नवन्तः । राक्षसयुद्धमेतत् ॥ २४ ॥ वानरा मुष्टिभिर्जघ्नुर्ददंशुर्दशनैस्तथा । निरासुश्च गिरींस्तुङ्गान् दुमान् विचकरुस्तथा ॥ २५ ॥ वानरा इत्यादि-वानरा मुष्टिभिर्जघ्नुः हृतवन्तः । राक्षसानित्यर्थात् । दशनैर्ददंशुः दृष्टवन्तः। गिरीन्निरासुः क्षिप्तवन्तः । द्रुमान् विचकरुर्विक्षिप्तवन्तः । 'कृ विक्षेपे ।' 'ऋच्छत्यृताम् |७|४|११|' इति गुणः ॥ २५ ॥ लागूलैलोंठयाञ्चकुस्त लैर्निन्युश्च सङ्क्षयम् । नखैश्च चकृतुः क्रुद्धाः पिपिषुश्च क्षितौ बलात् ॥ २६ ॥ (३७८) [ चतुर्दश:-
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४१६
दिखावट