सर्गः ] 'तिङ्काण्डम् । (३७७) ईक्षामित्यादि–सौमित्रिं 'इजादेश्चगुरुमतोऽनृच्छः च युद्धाय ईक्षाञ्चक्रे दृष्टवान् । ईक्षेरनुदात्तेतः । |३|१|३६ | इत्याम् । बलानि च अनुजज्ञे अनुज्ञातवान् । अनुपूर्वो जानातिरनुज्ञाने वर्तते तस्य परस्मैपदित्वात् । 'अनुजज्ञे इति पाठश्चिन्त्यः । न च 'अनुपसर्गाज्ज्ञः | १|३|७६ |' इति वचनादात्मने- पदम्, उपसर्गेण युक्तत्वात् । नमश्चकार देवेभ्यः । नमःशब्दयोगे चतुर्थी । पर्णतल्पं पर्णशयनीयं मुमोच मुक्तवान् ॥ १८ ॥ चक्रासांञ्चक्रुरुत्तस्थुनेंदुरानशिरे दिशः । वानरा भूधरान् रेधुर्बभञ्जुश्च ततस्तरून् ॥ १९ ॥ चक्कासाञ्चक्कु रित्यादि-ततोऽनुज्ञानानन्तरं वानरा उत्तस्थुः उत्थिताः । नेदुः शब्दितवन्तः । दिश आनशिरे व्याप्ताः । 'अश्व |७|४|७२। इत्यभ्यासस्य नुट् । 'अत आदे: १७७४।७०।' इति दीर्घत्वम् । भूधरान् पर्वतान् रेधु: उन्मूलितवन्तः । 'राधो हिंसायाम् | ६|४|१२३|' इत्येत्वाभ्यास- लोपः । तरूंश्च बभञ्जुः भग्नवन्तः । एवं च ते चकासाञ्चक्रुः शोभन्ते स्म । 'कास्यने काज्ग्रहणकर्तव्यम्' इत्याम् ॥ १९ ॥ अथ श्लोकद्वयं राघवयोर्ब्रह्मास्त्रबन्धसूचनार्थमनिमित्तदर्शनम् । ददाल भूर्नभो रक्तं गोष्पदमं ववर्ष च । मृगाः प्रससृपुर्वामं खगाइचुकुविरेऽशुभान् ॥ २० ॥ ददाळेत्यादि-भूर्ददाल विर्णाि । नभश्च रक्तं रुधिरं ववर्ष बृष्टवत् । लिटः पित्त्वादकित्त्वे धातोर्गुणः । कियत्प्रमाणं गोष्पदनं यावता गोष्पदं पूर्यते । ‘वर्ष- प्रमाण ऊलोपश्चास्यान्यतरस्याम् |३|४||३२|' इति णमुल् ऊलोपश्च । मृगाः प्रससृपुर्वमं वामपार्श्वेन गता इत्यर्थः । खगाः पक्षिणोऽशुभान् अनिष्टांइंचुकु- विरे शब्दितवन्तः । 'कुङ् शब्दे ।' अशुभमिति पाठान्तरम् । तत्र क्रिया- विशेषणं वेदितव्यम् ॥ २० ॥ उल्का दहशिरे दीप्ता रुरुवुश्वाशिवं शिवाः | चक्ष्माये च मही रामः शशङ्के चाशुभागमम् ॥ २१ ॥ उल्का इत्यादि-दीप्ता उल्का दहाशेरे दृष्टाः । अशिवम् अनिष्टं शिवा गोमायवः रुरुवुः शब्दितवन्तः । मही च चक्ष्माये कम्पिता । 'क्ष्मायी विधूनने' इत्यनुदात्तेत् । रामश्चाशुभागममनिष्टप्राप्तिं शशङ्के शङ्कते स्म । चेतसः पर्याकुलत्वात् इदमप्यनिष्टमेव ॥ २१ ॥
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४१५
दिखावट