पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३७६) भट्टिकाव्ये जयमङ्गलासमेते- [ चतुर्दश:- , 152 यत् । आञ्जिहिषाश्चके गन्तुमिष्टवान् । 'अहि गता' इत्यस्योनुदात्ततः सनीट् । ‘अजादेर्द्वितीयस्य । ६ । १ । २ ।' इति द्विवचनम् । 'नन्द्राः सं- योगोदयः ।६।१।३ ।' इति नकारो न द्विरुच्यते । 'आम्प्रत्ययवत् कृषोऽनुप्रपयोगस्य । १ | ३ | ६३ | इत्यात्मनेपदम् । तथा महापार्श्वम- होदरौ राक्षसौ याम्यं द्वारं दक्षिणम् । यमो देवता अस्येति 'दित्यदित्या- दित्यपत्युत्तरपदाण्ण्यः ।४ । १ । ८५ ।' इत्यत्र 'यमाच्चेति वक्तव्यम्' इति उक्तम् तेन प्राग्दीव्यतीयेऽर्थे ण्यप्रत्ययः । ररङ्घतुः गतौ । 'रघि गतौ ' इत्यस्य रूपम् ॥ १५ ॥ • प्रययाविन्द्रजित् प्रत्यगियाय स्वयमुत्तरम् । समध्यसिसिषाञ्चक्रे विरूपाक्षः पुरोदरम् ॥ १६ ॥ 6 प्रयय।दित्यादि—॰प्रत्यक् पश्चिमद्वारम् इन्द्रजित् प्रययौ गतवान् | प्रत्यागेति ‘दिक्छब्दभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः । । ५ । ३ । २७ ।' इति विहितस्यास्ताते: ‘अञ्चेक् । ५ । ३ । ३० ।' भसंज्ञाभावात् 'अचः ।। ६ । ४ । १३८ ।' इत्यकारलोपोनिवर्तते ।' चौ । ६ । ३ । १३८ । ' इति दीर्घत्वं च । स्वयमिति रावण उत्तरद्वारमिया गतः । विरूपाक्षो राक्षसः पुरोदरं पुरमध्यं समध्यासिसिषा चक्रे समध्या- सितुमिष्टवान् । आस्तेरनुदात्तेतः सनि इटि अजादित्वाद्वितीयस्य द्वित्वम् । 'पूर्ववत्सनः ||१|३|६२||' इत्यात्मनेपदम् । अनुप्रयोगस्याप्यात्मनेपदम् ||१६|| शुश्राव रामस्तत्सर्व मतस्थे च ससैनिकः । विस्फारयाञ्चकाराऽस्त्रं बचन्धाग्य च बाणधीः ॥ १७ ॥ शुश्रावेत्यादि--अथानन्तरं रामस्तत्सर्व रावणचेष्टितं शुभाव श्रुतवान् । प्रतस्थे च गन्तुं प्रवृत्त: । 'समवप्रविभ्य: स्थः ||१||३|२२|' इति तङ् । ससैनिक: सह योधैः । सेनायां समवेता इति 'सेनाया वा |४|४|४५१ इति पक्षे ठक् । अक्षं धनुर्विस्फारयाञ्चकार आरोप्याकृष्टवान् । स्फुरते: । ‘चिस्फुरोर्णौ । ६ । १ । ५४ ।' इत्यात्वम् । बबन्ध च बाणवी तूणीरे ति स्म । बाणा घीयन्तेऽत्रेति । 'कर्मण्यधिकरणे च | ३ |३|९३ | इति किः ॥ १७ ॥ ईक्षाञ्चक्रेऽथ सौमित्रिमनुजज्ञौ बलानि च । नमश्चकार देवेभ्यः पर्णतल्पं मुमोच च ॥ १८ ॥