पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । (३७५ ) गजानां प्रददुः शारीन् कम्बलान् परितस्तरुः । तेनुः कक्षां ध्वजांश्चैव समुच्छिश्रियुरुच्छिखान् ॥ ११॥ गजानामित्यादि--- गजानां शान् िप्रददुः । पृष्ठेषु आरोपितवन्तो पका इत्यर्थात् । तथा कम्बलान् नानावर्णविचित्रान् परितस्तरुः वन्तः । कक्षां हेमादिमयीं तेनुः विस्तारितवन्तः । उच्छिखान् उद्धृतशिखान् ध्वजान समुच्छिश्रियुः उत्क्षिप्तवन्तः ॥ ११ ॥ हस्ति- आस्तीर्ण- विशिश्वासयिषाञ्चकुरालिलिङ्गच योषितः । आजमुर्मूर्ध्नि बालांश्च चुचुम्बुश्च सुतप्रियाः ॥ १२ ॥ विशिश्वासयिषाञ्चकुरित्यादि---- योषितः आत्मीयान् विशिश्वासयिषा- ञ्चक्रुः विश्वासयितुमिष्टवन्तः । मय्यन्यथा न भवनीयामीति । ण्यन्तात्सन्नन्तस्य रूपम् । आलिटिङ्गुश्च लिष्यन्ति स्म । लिगिर्गत्यर्थः । आङ्पूर्वः परिपत्रङ्गे वर्तते । बालान् शिंशून् आजघ्नुः शिरास आघ्रातवन्तः । तथा चुचुम्बुच चुम्बितवन्तः। सुतप्रियाः सुताः प्रियाः यासामिति ।। १२ ।। गम्भीरवेदिनः सञ्ज्ञा गजा जगृहुरक्षताः । ववृधे शुशुभे चैषां मदो हृष्टैश्च च पुप्लुवे ॥ १३ ॥ गम्भीरवेदिन इत्यादि-- ये गजा मत्तत्वादकुशैहेढ़ माहता गम्भीरं विन्दन्ति ते गम्भीर वेदिनः तस्मिन् काले संज्ञा युद्धौपयिकीर्जगृहु: गृहीतवन्तः । अक्षतास्तोत्राङ्कुशैरनाहताः सन्तः । हृष्टैश्च गजैः पुप्लुवे प्लुतम् । भावे लिट् । हर्षादेषां मदो ववृधे वर्धते रम । शुशुभे च शोभते स्म ।। १३ ।। मृगाः प्रदक्षिणं ससुः शिवाः सम्यग्ववाशिरे । अवामैः पुस्फुरे देहेः प्रसेदे चित्तवृत्तिभिः ॥ १४ ॥ मृगा इत्यादि--एवं संनह्य चलतां मृगाः दक्षिणपार्श्वेन गताः वामपार्श्व- स्थाः शिवाः सम्यग्ववाशिरेः शब्दितवत्य इत्यर्थः । 'वाट शब्दे ।' अवामैर्द क्षिणैर्देघैर्भुजादिभिः पुस्फुरे स्फुरितम् । भावे लिट् । चित्तवृत्तिभिर्मनोवृत्तिभिः प्रसेदे प्रसन्नम् । पूर्ववत्सदेर्भावे लिट् ॥ १४ ॥ प्राच्यमाञ्जिहिषाञ्चके मद्दस्तो रावणाज्ञया । द्वारं रहतुर्याम्यं महापार्श्वमहोदरौ ॥ १५ ॥ प्राच्यमित्यादि-एवं शुभनिमित्तोत्साहितः प्रहस्तो प्राचि भवं पूर्वद्वारम् ' युप्रागपागुदक्प्रतीचो यत् । ४ । २ । ११० ।' इति रावणाज्ञया प्राच्य