(३७४) : भट्टिकाव्ये जयमङ्गलासमेते- [ चतुर्दशः - - जगर्जुरित्यादि - शूरा जगर्जुः । अस्माभिर्वृष्टाः शरा: कयास्यन्तीति शब्दितवन्तः । तथा जहृषुः तुष्टाः चिरमायातः समर इति । 'हृष तुष्टौ ।' अतः एत्र रेजुः शोभन्ते स्म । ‘फणां च सप्तानाम् | ६ | ४ | १२५ ।। इत्येत्वा भ्यासलोपौ । परैरन्यैस्तुष्टुविरे स्तुताः । भवतामग्रतः समरे के तिष्ठन्तीति । अङ्गुलित्राणि बबन्धुः बध्नन्ति स्म । 'बन्ध बन्धने ।' तथा परे सन्नेहुः कवचानि बध्नन्ति स्म । ‘णह बन्धने' । परिनिर्ययुः निष्क्रान्ताः ॥ ७ ॥ धनूंष्यारोपयाञ्चकुरारुरुहू स्थादिषु । असीनुद्ववृहुर्दीप्तान् गुर्वीरुच्चिक्षिपुर्गदाः ॥ ८ ॥ धनूंषीत्यादि--धनूंषि आरोपयाञ्चक्रुः आरोपितगुणानि कृतवन्तः । 'रुहः पोऽन्यतर याम् ।७।३।४३।१ इति इति णौ पादेशः । आरुरुहुरारोहन्ति स्म रथा- दिषु । द्वितीया न कृता । अधिकरणत्वेन विवक्षितत्वात् । दीप्तान्निष्कलङ्का- नसीन् उद्ववृहु: कोशादाकृष्य उद्यतान् कृतवन्तः । 'वृह उद्यमने ।' गुर्वीगंदा उच्चिक्षिपुः उत्क्षिप्तवन्तः ॥ ८ ॥ - शूलानि भ्रामयाञ्चकुर्बाणानादादिरे शुभान् । भ्रेमुश्चुकूदिरे रेसुर्ववल्गुश्च पदातयः ॥ ९ ॥ शूलानीत्यादि – झुलानि भ्रमयाञ्चक्रुः भ्रमयन्ति स्म । मान्तत्वान्मित्त्वे ह्रस्वत्वम् | बाणान् शुभान् युद्धयोग्यानाद्विरे गृहीतवन्तः । 'आङो दो- ऽनास्यविहरणे |१||३||२०|' इति तङ् | पदातयश्च मुः इतस्ततो याताः । चुकूदिरे शस्त्रपाणयः क्रीडितवन्तः । 'कुर्द खुर्द गुर्द गुद क्रीडायामेव ।' 'उप- वन्तः । 'रस शब्दे ।" ववल्गुः प्रप्लुताः । वल्गतिः 'उख उखि' इत्यादौ पठयते ॥ ८ ॥ समुत्पेतुः कशाघातै रश्म्याकर्ममाङ्गेरे । LADDERS अश्वाः प्रदुद्रुवुर्मोक्षे रक्तं निजगरुः श्रमे ॥ १० ॥ समुत्पेतु रित्यादि --- कशाघातैः चर्मलताप्रहारैः अश्वाः समुत्पेतुः उत्प्लुताः ! रश्म्याकर्षे: प्रग्रहाकर्षणैः ममङ्गिरे शोभन्ते स्म । सङ्कोचितघोण- त्वात् । ‘मगि मण्डने ।’ मोक्षे रश्मीनां प्रसारणे प्रदुद्रुवुः वेगेन गताः । श्रमे सति खलीनप्रभवं रक्तं निजगरुः पतिवन्तः । निगरणे ।' 'ऋच्छत्यृताम् १७१४|११|' इति गुणः ॥ १० ॥ 9 दुर्भरा इत्यर्थः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४१२
दिखावट