पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः: ] तिङ्काण्डम् । (३७३ ) चौरादिकस्य रूपम् । पेरा: खरमुखाकाराः पूर्णा मुखमरुता सम्वनु: । 'फणां च सप्तानाम् । ६।४ | १२५|| इति लिटि एत्वविधानस्य विकल्पितत्वात् नैत्वम् ॥ ३ ॥ मृदङ्गा धीरमास्वेनुर्हतैः स्वेनेच गोमुखैः । घण्टा : शिशिञ्जिरे दीर्घे जहादे पटभृशम् ॥ ४ ॥ मृदङ्गा इत्यादि -- मृदङ्गा मुरजाः धीरम् आस्खेनुः गम्भीरं ध्वनिताः । एत्व- पक्षे रूपम् । गोमुखैर्वाद्यविशेषैः हतैः स्वेने शब्दितम् । भावे लिट् । घण्टा: दीर्घ शिशिजिरे चैः शब्दितवत्यः । पटहेर्भशमत्यर्थम् । जहादे शब्दितम् । भावे लिट् ॥ ४ ॥ ineghin हया जिहेषिरे हर्षाद्गम्भीरं जगजुर्गजाः | संत्रस्ताः करभा रेटुश्चुकुवुः पत्तिपङ्कयः ॥ ५ ॥ हया इत्यादि — या अश्वा: हर्षात् जिहेषिरे हेषितवन्तः । 'हेट अव्यक्ते शब्दे' भौवादिकोऽनुदात्तत् । अभ्यासस्य 'ह्रस्वः | ७|४|४९ | इति एत इद्भवति । गजा गम्भीरं मन्द्रं जगजुः गर्जितवन्तः । 'गज गृजी शब्दा- थौ ।' कैरभा उष्ट्राः संत्रस्ताः नानावादित्रश्रवणात् । रेटुः शब्दं कृतवन्तः । 'रट परिभाषणे' इति शब्दार्थः । पत्तिपद्भ्यः पदातिसंहतयः चुकुवुः शब्दित वत्यः । गच्छत किं तिष्ठति । 'कु शब्दे' इत्युदात्तेत् ॥ ५ ॥ तुरङ्गाः पुस्फुटुर्भीताः पुस्फुरुर्वृषभाः परम् । र्यश्चुक्षुभिरे मम्लुर्मुमुहुः शुशुचुः पतीन् ॥ ६॥ तुरङ्गा इत्यादि -- तुरङ्गा अश्वा भीता वादित्रश्रवणात् पुस्फुटु: स्फुटिता: भयादितस्ततो गताः । 'स्फुट विशरणे' | वृषभाः परं पुस्फुरुः सुष्ठु बाळताः । ‘स्फुर वलने ।' नायर्चुक्षुभिरे अस्माकमायातो वियोग इति क्षोभ- मुपगताः । व्यस्तचित्ता जाता इत्यर्थः । काश्चित् मम्लुः । ‘ग्लै म्लै हर्षक्षये’ | मुमुहुः काश्चिन्मोहमुपगताः । पतीन् काश्चित् शुशुचुः शोचितवत्यः । हा कष्टं नियतं विनष्टा इति ॥ ६ ॥ जगर्जुर्जहषुः शूरा रेजुस्तुष्टुविरे परैः । बबन्धुरङ्गुलित्रा सन्नेहुः परिनिर्ययुः ॥ ७ ॥ १ 'करमश्शिशुः' इति, 'करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः । इत्या- युक्त्योष्ट्रविशेषवाचिस्वेऽपि उष्ट्रत्वमादायेति बोध्यम् । ming