पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ चतुर्दश:- (३७२) भट्टिकाव्ये जयमङ्गलासमेत - चतुर्दशः सर्गः । सुप्तिङ्ख्युत्पत्तौ यत्सौष्ठवं तदपि काव्यस्याङ्गमुक्तम् । अतः प्रसन्नकाण्डान- न्तरं तिङ्काण्डं शब्दलक्षणप्रयोगार्थं कथ्यते । तत्र लस्य स्थाने तिबादयः । लकाराश्च नव लेटश्छन्दोविषयत्वादिति । अत्र नव विलसितानि । विलसितं च नानारूपता । तत्र भूतार्थवतो लिटोऽधिकृत्य तद्विलसितमाह -- 2000 - ततो दशाऽऽस्यः स्मरविह्वलाऽऽत्मा चारप्रकाशीकृतशत्रुशक्तिः । विमोह्य मायामयराममूर्ध्ना सीतामनीकं प्रजिघाय योद्धुम् ॥ १ ॥ / तत इत्यादि — ततः स्वपरबलयो रणादुत्तरकालं दशास्यः स्मरविह्वलात्मा कामवशीकृतदेहः भर्तरि निराशा सती सीता ममानुकूला भविष्यतीति माया- मयेन मायास्वभावेन राममूर्ध्ना छिन्नेन सीतां विमोह्य मोहयित्वा चारैः प्रणि- घिभिः प्रकाशीकृता शत्रुशक्कि: वैरिसामर्थ्य यस्मै | योद्धुमनीकं सैन्यं प्रजि- घाय प्रहितवान् । ‘हेरचाङ ७७३१५६ | इति कुत्वम् । भूतानद्यतनपरोक्षे सर्वत्र लिट् ॥ १ ॥ । निजनिरे । कम्बूनथ समादध्मुः को वेणून्पुपूररे गुञ्ज जुगुञ्जुः करघट्टिताः ॥ २ ॥ शब्दितवन्तः कम्बूनित्यादि ---अथ सैन्यप्रेषणानन्तरं कम्बून् समादध्मुः शाहिकाः । कोणैर्वाद्यवादनैः काष्ठमयैः भेर्यो निजन्निरे ताडिताः कर्मणि लिट् | वेणून् वंशान् पुपूरिरे मुखमरुता पूरितवन्तः । 'पूरी आप्यायने' इति दैवादिकोऽनुदात्तेत् । गुञ्जाः समरवादनाः करघट्टिताः अङ्गुलिघृष्टा जुगुञ्जुः शब्दितवत्यः । 'गुजि अव्यक्ते शब्दे ॥ २ ॥ वादयाञ्चक्रिरे ढक्काः पणवा दध्वनुर्हताः | काहला: पूरयाञ्चक्रुः पूर्णा: पेराश्च सस्वनुः ॥ ३ ॥ वादयामित्यादि -- ढक्का वादयाञ्चक्रिरे वादितवन्तः । ढक्कावादका इत्यर्थः। वदेर्हेतुमण्ण्यन्तात् आमि 'अयामन्ताल्वाय्येत्न्विष्णुषु |६|४|५५|' इत्ययादेशः । 'आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य | १ | ३ । ६३ ।' इति कृञोऽनुप्रयोगस्यात्मने- पदम् | 'णिश्च ||१|३|७४ | इति आम्प्रत्ययादात्मनेपदस्य विहितत्वात् । पणवा: वाद्यविशेषाः हताः पाणविकैस्ताडिता: दुध्वनुर्ध्वनिताः । काहलाः गोशृङ्गसंस्थानाः पूरयाञ्चकुः पूरितवन्तः । 'पूरी आध्यायने' इति