पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्नकाण्डम् । ते रामेण सरभसं परितरला हरिगणा रणसमारम्भे । रुद्धा लङ्कापरिसरभूवरपरिभङ्गलालसा धीररवम् ॥ ४८ ॥ ते इत्यादि - - ते हरिगणाः कपिगणाः रणसमारम्भे रणप्रवर्तननिमित्तं सरभसं संभ्रमपूर्वकं परितरलाः स्थातुमशक्नुवन्तः । लङ्कापरिसरे लङ्का- समीपे ये भूधराः तरवः तेषां परिभङ्गे चूर्णने लालसा : सतृष्णा: सन्तो रामेण रुद्धाः प्रतिषिद्धाः मा भाञ्जुरिति । धीररखं धीरो रवो यस्यां प्रतिषेधनक्रियायामिति ।। ४८ ।। pe OTHER DE अथ द्वाभ्यां युग्मकम्- (३७१) जलती रतुङ्गतरुधरकन्दर गिरिभित्तिविवराऽऽवासम् । भीमं तरुहरिणबलं सुसमिद्धहिमारिकिरणमालालोलम् ॥ ४९ ॥ जलेत्यादि- तरुहरिणबलं कपिबलं निषिद्धं सत् भीमं भयानकं जलती- राद्यैरावासो यस्य तत् सुसमिद्धस्य हिमारेरनेरादित्यस्य वा या किरणमाला तल्लोलं समारूढमिति वक्ष्यमाणेन सम्बन्धः ॥ ॥ ४९ ॥ रावणबलमवगन्तुं जलभरगुरुसलिलवाहगणसमच्छायम् । अट्टतरुमञ्चमन्दिरतोरणमालासभासु समारूढम् ॥ ५० ॥ इति महावैयाकरणभट्टि-प्रणीते रामचरित काव्ये प्रसन्नकाण्डे भाषासमावेशो नाम चतुर्थः परिच्छेदत्रयोदशः सर्गः । रावणेत्यादि-रावणधलमर्वगन्तुं कीदृशमिति जलभरेण गुरुर्यः सलिलवाहगणो जलघरसमूहः त तेन समच्छायम् तुल्यच्छायम् अट्टादिषु समाम् ॥ ५० ॥ इति श्रीजयमङ्गलसूरिविरचितया श्रीजयमङ्गलायया व्याख्यया समलंकृते श्री भट्टिप्रणीते रामचरिते तृतीये प्रसन्न-काण्डे लक्षण- रूपे चतुर्थः परिच्छेदः तथा लक्ष्यरूपे कथानके 'सेतुबन्धनं' नाम त्रयोदशः सर्गः । लक्ष्योऽर्थमर्थः, तत्फलं तु तेषां भूधर सदृशोच्चताऽऽयतिशय प्रत्यायनम् । १