पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३६८) भट्टिकाव्ये जयमङ्गलासमेते- [ त्रयोदश:- कलहरिकण्ठविरावं सलिलमहाबन्धसङ्कलमहासालम् | चलकिसलयसम्बद्धं मणिजालं सलिलकणमयं विवहन्तम् ॥ ३५ ॥ कलेत्यादि--कलो मनोहरः हरीणां कण्ठविरावो यत्र । सलिलस्य यो महाबन्धस्तेन संकुला महान्तः साला: सालवृक्षा यत्र । चलकिसलयेषु संबद्ध संलग्नं सलिलकणमयं सलिलकणरूपं मणिजालं मणिसमूहमिव विवहन्तं धारयन्तम् ॥ ३५ ॥ तुङ्गमणिकिरणजाल गिरिजलसंघट्टबद्धगम्भीररखम् । चारु गुहाविवरसभं सुरपुरसमममरचारणसुसंरावम् ॥ ३६ ॥ तुङ्गेत्यादि - -तुङ्गमणीनां किरणजालं यत्रेति । गिरिजलानि निर्झरजलानि तेषां यः संघट्टः परस्परसंश्लेषस्तेन बद्धो गम्भीरो रवो यत्र । चारुगुहाविवर- मेव सभा शाला यत्र । अमरचारणानां गन्धर्वाणां गायतां शोभन: संरात्रो यत्र अत एवामरपुरसमम् ॥ ३६ ॥ विमलमहामणिटङ्कं सिन्दूरकलङ्कपिञ्जरमहाभित्तिम् । वीरहरिदन्तिसङ्गमभयरुद्ध विभावरीबिहार समीहम् ॥ ३७ ॥ - । अतश्च विमलेत्यादि – विमलमहामणीनां पद्मरागादीनां टङ्का छेदा यत्र सिन्दूरकलङ्केन लाञ्छनेन पिञ्जरा इव महाभित्तयो यस्य । वीराणां हरीणां दन्तिनां च यः सङ्गमोऽन्योन्यगमनं तस्माद्यद्भयं तेन रुद्धा निवारिता विभा- वर्या विहारसमीहा विहरणेच्छा यत्र ॥ ३७ ॥ समहाफणिभीमबिलं भूरिविहङ्गमतुमुलोरुघोरविरावम्। वारणवराहहरिवरगोगणसारङ्ग संकुलमहासालम् ॥ ३८ ॥ समेत्यादि- समहाफणीन्यत एव भीमानि बिलानि विवराणि यत्र | भूरीणां विहङ्गमानां तुमुलोऽनेक प्रकार उरुर्महान् घोरो रौद्रो विरावो यत्र । वारणादिभिः स्कन्धकर्षणार्थिभिः संकुला महासाला यत्र ॥ ३८ ॥ चलकिसलयसविलासं चारुमहीकमलरेणुपिञ्जरवसुधम् । सकुसुमकेसरबाणं लवङ्गतरुतरुणवल्लरविरहासम् ॥ ३९ ॥ चलेत्यादि --चलैः किसलयैः हस्तैरिव सविलासं प्रारब्धनृत्यम् । चारूणां महीकमलानां स्थलजानां रेणुभिः पिञ्जरा वसुधा यत्र । सकुसुमाः केसराः वाणाश्च यत्र | लवङ्गतरोस्तरुणा या वल्लर्यः प्ररोहास्ता एव वरो हासो विकासो यत्र ।। ३९ ॥