सर्गः ] प्रसन्नकाण्डम् | अथ त्रयोदशभिः कुलकम् । आरूढं च सुवेलं तरुमालाऽऽबन्धहारिगिरिवरजालम् | रावणचित्तभयङ्करमापिङ्गललोलकेसरं रामबलम् ॥ ३१ ॥ आरूढमित्यादि — रामबलं तटे स्थित्वा आरूढं च सुवेलं पर्वतम् | धका- रस्य प्राकृते स्वरशेषता न भवति । पदमध्यान्तयोरवर्तमानत्वात् । तरुमा- लाया य आबन्ध : तेन हारि मनस्तुष्टिकरं तादृशं गिरिवराणां पर्यन्ताग- रीणां जालं यस्य सुवेलस्य | रावणचित्तस्य भयङ्कर रामबलम् । आपिङ्ग- लानि लोलानि केसराणि यस्य तदिति ॥ ३१ ॥ लङ्काऽऽलयतुमुलाsरवसुभरगभीरोरुकुञ्जकन्दरविवरम् । वीणारवरससङ्गमसुरगणसंकुलमहातमालच्छायम् (३६७) ॥ ३२ ॥ महानारवः तेन कत्यादि-लङ्कायानां राक्षसानां यस्तुमुलो सुभरा: परिपूर्णा: गभीरोरुकुजा गम्भीरमहागहनानि कन्दरविवराणि च यत्र सुबेले । वीणारवे यो रसस्तृष्णा तेन संगम: समागमो येषां सुरग- णानां ते च सुरगणाश्चेति समासः । तैः संकुला व्याप्ता महातमाल- च्छाया यत्रेति ॥ ३२ ॥ सरसबहुपल्लवाऽऽविलकेसरहिन्तालबद्धबहलच्छायम् । ऐरावणमद्परिमलगन्धवहाऽऽबद्वदन्तिसंरम्भरसम् ॥ ३३ ॥ सरसत्यादि - सरसा: सार्द्राः ये बहवः पल्लवाः तैराविला अन्धकारिता ये केसरवृक्षाः हिन्तालवृक्षाश्च तैर्बद्धा बहला घना छाया यत्र सुवेले | ऐराव- णस्य ऐरावतस्य हस्तिनो मदपरिमलो यस्मिन् गन्धवहे तादृशेन गन्धवहेन आबद्धो दन्तिनां हस्तिनां संरम्भरसः क्रोधरसो यत्रेति | ऐरावण ऐरावत इत्यु- अयमपि प्राकृते साधुः ॥ ३३ ॥ । तुङ्गतरुच्छायारुहकोमलहरिहारिलोलपल्लवजालम् । हरिणभयङ्कर सकुसुमदावसमच्छविविलोलदाडिमकुञ्जम् ॥ ३४ ॥ तुङ्गेत्यादि-तुङ्गतरूणां या छाया तस्यां रोहन्तीति 'इगुपधज्ञाप्रीकि- रः कः | ३|१|३५|' इतीगुपधलक्षणः कः । तुङ्गतरुच्छायारुहा: विटपा: तेषां कोमलं हरि हरितं हारि तुष्टिकरं लोलं पल्लवजालं यत्र | हरि- णानां भयङ्करा दावसदृशत्वात् सकुसुमदावसमच्छवयः दावाग्नितुल्या: लोल- दाडिमकुञ्जा यत्र ॥ ३४ ॥
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४०५
दिखावट