पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्नकाण्डम् । अमलमणिहेमटङ्कं तुङ्गमहाभित्तिरुद्धरुरुपङ्कगमम् । अमरIssरूढपरिसरं मरुमिवाऽविरलसरसमन्दारतरुम् ॥ ४० ॥ (३६९ ) यत्र । तुङ्गा अमलेत्यादि-- अमलमणीनां हेमादीनां टङ्काश्छेदा उच्चा महती विस्तारवती या भित्तिस्तया रुद्धो रुरूणां मृगविशेषा- णाम् पङ्कगमः पङ्केन गमनं यत्र । गमेः 'ग्रहवृदुनिश्चिगमश्च | ३|३|५८।१ इत्यप् । ‘वङ्कगमम्' इति पाठान्तरे तु तुङ्गमहाभित्तौ रुद्धः कुटिलो गमो यत्र । 'वकि कौटिल्ये' इत्यस्य रूपम् । अमरैरारूढाः परिसरास्तटा यत्र । अविरलाः सरसा मन्दारतरवो देववृक्षा यत्र | तमित्थं मेरुमिव ॥ ४० ॥ फलभरमन्थरतरुवरमविरविरूढहारिकुसुमापीडम् । हरिणकलङ्कमणिसंभव बहुवारिसुभरगम्भीरगुहम् ॥ ४१ ॥ फलेत्यादि-फलभरेण मन्थरा ईषन्नतास्तरुवरा यत्र | अविदूरे विरूढा हारिणः कुसुमापीडा यत्र । पुष्पस्तबकानां हस्तग्राह्यत्वात् । हारणकलङ्क- मणिः महाचन्द्रकान्तः तस्मात् संभवो यस्य बहुवारिणः तेन सुभराः परि- पूर्णा गम्भीरा गुहा यस्य । अत्र मणिमहत्तया वारिमहत्त्वात् गम्भीरगुहा- पूरणमिति ॥ ४१ ॥ जलकामदन्तिसंकुलसहेमरसचारुधवल कन्दरदेहम् । अङ्कुररोह समच्छविरुरुगणसंलीढतरलहरिमणिकिरणम् ॥ ४२ ॥ जलेत्यादि-जलमेतदित्येवं कामैर्दन्तिभिः संकुला: सहेमरसा: सह हेम- रसेन वर्तमानाः चारवः शोभनाः धवलाः कन्दरदेहाः कन्दरसन्निवेशा यत्र । रोहणं रोह अङ्कुराद्रोहो यस्य शस्यस्य तेन समच्छ वस्तुल्यवर्णा रुरुगणास्तैः संलीढाः तरलाञ्चञ्चलाः हरिमणिकिरणा मरकतमयूखा यत्र ॥ ४२ गाढेत्यादि गाढसमीरणसुसहं भीमरवोत्तुङ्गवारिधरसङ्घट्टम् । धवलजलवाहमालासम्बद्धाबद्ध हिमधराधरलीलम् ॥ ४३ ॥ — गाढो महान् यः समीरणः तं सुसहत इति मूलावभुजा- दित्वात्कः । भीमरवास्तुङ्गा ये वारिधरास्तेषां संघट्टो यत्र । धवला ये जलवाहास्तेषां मालाया यत्सम्बद्धं सम्बन्धः ( संबन्धनं सम्बद्धं 'नपुंसके भावे क्तः | ३|३|११३।' इति भावे क्त: ) तेन करणभूतेन आबद्धा अनुकृता हिमघराघरस्य हिमवतो धराधरस्य लीला विभ्रमो येन तं सुवेलम् आरूढम्॥४३॥ २४