पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३६४ ) भट्टिकाव्ये जयमङ्गलासमेते- [ त्रयोदशः - - उच्चख्नुरित्यादि – ततोऽवगाहादनन्तरं बाहुभिः परिरब्धान् समाश्लिष्टान् भूमिभृतः पर्वतान् कपिसङ्घा उच्चख्नु: उत्खातवन्तः । 'गमहनजनखन- घसां लोपः कित्यनङ |६|४|१८| इत्युपधालोपः । निष्पिष्टशेषमूर्ध्नः व्याप्त- पातालमूलत्वात् चूर्णितनागराजमस्तकान् शृङ्गैः शिखरैर्विकीर्ण उष्णरश्मिरा- दियो नक्षत्रगणश्च यैर्दिवं व्याप्य स्थितत्वात् । असंकीर्ण इति अत्र प्राकृतस्याप्रयुक्तत्वात् ॥ २१ ॥ अथ त्रिभिः विशेषकम् । अथ चत्वारः सङ्कीर्णाः- तुङ्गमहागिरिसुभरा बाहुसमा रुद्धभिदुरटङ्गा बहुधा । लवणजलबन्धकामा आरूढा अम्बरं महापरिणाहम् ॥ २२ ॥ तुङ्गेत्यादि- तुङ्गा उच्चा महान्तः परिणाहवन्तो ये गिरयस्तैः सुभरा जातभराः कपयः । बाहुभिः समारुद्धा भिदुरा: विदारणशीला: टङ्का उन्नत- प्रदेशा यैस्ते । बहुधा अनेक प्रकारं लवणजलबन्धकामाः एवमेवं बद्धव्यमिति जातेच्छाः आरूढाः अम्बरं व्योम महापरिणाहम् महान् परिणाहो विस्तारो यस्य तत् अप्रमेयदिग्विभागम् ॥ २२ ॥ बहुधवलवारिवाहं विमलाsऽयसगुरुमहाऽसिदेहच्छायम् । बद्धविहङ्गममालं हिमगिरिमिव मत्तकुरररव सम्बद्धम् ॥ २३ ॥ बहित्यादि — बहवो धवला बारिवाहा यत्राम्बरे | विमलायसः अयसो विकार : गुरुरलघुर्महान् योऽसि ः खड्गः तस्य' यो देहः तस्य छायेव छाया यस्य | बद्धा विरचिता विहङ्गानां माला पर्यित्र | मत्तानां कुरराणां रखेण सबद्धं युक्तम् । अतो हिमगिरिमिवाम्बरमारूढा इति ॥ २३ ॥ चारुकलहंससंकुलमचण्डसंचारसारसाऽऽबद्धरवम् । सकुसुमकणगन्धवहं समयाऽऽगमवारिसङ्गविमलाऽऽयामम् ॥ २४ ॥ चारुकलहंसेत्यादि- चारुभिः कलहंसैः संकुलं व्याप्तम् । अचण्डसंचारैः शनैः संचरद्भिः सारसैराबद्धो रवो यस्मिन् । सकुसुमकण: सपुष्परेणुर्गन्ध- हो वायुर्यत्रेति । वहतीति हः कर्तर्यच् । गन्धस्य वह इति समासः । समयस्य प्रावृट्कालस्य य आगमः तेन यो वारिसङ्गः तेन प्रक्षालितत्वात् विमला आयामा यत्र तदम्बरमारूढा इति ॥ २४ ॥ सहसा ते तरुहरिणा गिरिसुभरा लवणसलिलबन्धाऽऽरम्भे । तीरगिरिम् आरूढा रामाऽऽगमरुद्धसभयरिपुसंचारम् ।। २५ ।।