पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्नकाण्डम् । (३६५) सहसेत्यादि - - ते तरुहरिणा: शाखामृगाः गिरिभिः सुभराः सन्तः लवणसलिलबन्धारम्भे समुद्रबन्धनारम्भे सहसा तत्क्षणं तीरगिरिं तटस्थितं पर्वतमारूढाः । अत्र संस्कृतपक्षे संहिताया अविवक्षितत्वात् तीरगिरिमारूढा इति नोक्तम् । अन्ये 'आरूढा तीरगिरिम्' इति विपर्यायमस्य पठन्ति । तद्युक्तम् । संस्कृतपक्षे अस्भावाद्यत्वं नास्ति । अतो विसर्जनीयस्स्य सकार एव स्यात् । रामस्य य आगमस्तेन रुद्धः सभयानां रिपूणां शत्रूणां संचारो यत्र तीरगिरौ । राम आगत इति तत्र भयात् संचारं त्यक्तवन्त इति ॥ निराख्यातोऽसङ्कीर्णः श्लोकः ॥ २५ ॥ ततः प्रणीताः कपियूथमुख्यैन्यस्ताः कृशानोस्तनयेन सम्यक् । अकम्प्रब्रम्नाऽग्रनितम्बभागा महार्णवं भूमिभृतोऽवगाढाः ॥ २६ ॥ तत इत्यादि -- ततोऽनन्तरं भूमिभृतः पर्वता: कपियूथमुख्यैर्नालादिभिः कृशानोस्तनयस्य नलस्य प्रणीता: अर्पिता: सन्तस्तेनैव कृशानुतनयेन सम्यक् साधु न्यस्त : सन्त: महार्णवम् अक्गाढा: अवष्टब्धवन्तः अकम्प्राः स्थिराः नाप्रनितम्बानां भागा येषां ते । त्रघ्नो मूलम् । 'इण्विजिद्दी उण्यविभ्यो नक्' इत्यधिकृत्य 'बन्धेर्त्रधिबुधिबुधी च' इत्यौणादिको नक् । इदमपि निराख्यातं तिङन्तपदाभावात्, असंकीर्ण च प्राकृताभावात् ॥ २६ ॥ अथैकान्तराख्यातोऽसङ्कीर्णः । तेनेऽद्रिबन्धो ववृधे पयोधिस्तुतोष रामो मुमुदे कपीन्द्रः । तत्रास शत्रुर्ददृशे सुवेल: मापे जलाऽन्तो जहषुः प्लवङ्गाः ||२७|| तेन इत्यादि ----अद्रिबन्धस्तेने शनैर्विस्तारं गतः, अत एव ववृधे पयोधि- वृद्धिं गतः । गिरिभिः पूर्यमाणोदरत्वात् तीरं प्लावयति स्म । तुतोष रामस्तु - ष्टवान् । सुकरमिदानीं शत्रुव्यापादन मिति । मुमुदे कपीन्द्रः हृष्टवान् । प्राप्तो मे प्रत्युपकारकाल इति । तत्रास शत्रुः त्रासमुपगतः सेतुं बद्धवानिदानीमा- यातो राम इति । ददृशे सुवेल: ढौकमानैः सर्वैर्दृष्टः । जलान्तश्च प्रापे प्राप्तः । ततो जहृषुः हृष्टाः प्लवङ्गाः स्वाम्यादेशः संपादित इति । एतदेकान्त राख्यातम् सुबन्तपदैर्व्यवधानात् । असङ्कर्णश्च प्राकृताभावात् ॥ २७ ॥ १ इतः प्रभृत्युपजातिश्छन्दः ।