पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] = (३६३) प्रसन्नकाण्डम् | अवगाढं गिरिजालं अथ चतुर्भिः कलापकम् । तुङ्गमहाभित्तिरुद्धसुरसञ्चारम् । अभयहरिरासभीमं करिपरिमलचारुबहलकन्दरसलिलम् ॥ १७ ॥ अवगाढमित्यादि -- खमारुह्य रामबलेन गिरिजालमवगाढं अवष्टब्धम् तुङ्गांभिरुच्छ्रिताभिर्महतीभिः परिणाहवतीभिभित्तिभी रुद्धः सुराणां संचारो यस्मिन् तेषामुन्नतत्वात् । अभया ये हरयः सिंहास्तेषां रासेन शब्देन भीमं भयानकम् । करिणां यः परिमलः संमर्दुस्तेन चारु शोभनम् । बहुलं घनं कन्दरसलिलं यस्मिन् ॥ १७ ॥ अलिगणविलोलकुसुमं सकमलजलमत्तकुररकारण्डवगणम् । फणिसंकुलभीमगुहं करिदन्तसमूढसरसव सुधाखण्डम् ॥ १८ ॥ अलिगणेत्यादि---अलिगणैर्विलोलानि कुसुमानि यत्र | सकमलेषु जलेषु मत्ता: कुरराणां कारण्डवानां च गणा यत्र । फणिभिः संकुला व्याप्ताः सत्यो भीमा गुहा यत्र । करिदन्तैः समुत्क्षिप्तं सरसं सान्द्रं वसुधायाः खण्डं यत्र ।। १८ ॥ अरविन्दरेणुपिञ्जरसारसरवहारिविमलबहुचारुजलम् | रविमाणसम्भवहिमहरसमागमाऽऽबद्धबहुल सुरतरुधूपम् ॥ १९ ॥ अरविन्देत्यादि---अरविन्दरेणुभिः पिञ्जरा पिङ्गला ये सारसास्तेषां रवेण हारि मनोहारि विमलं बहु चारु जलं यत्रेति । रविमणिसंभवः सूर्यकान्त- मणिसम्भवः यो हिमहर: अभिः तेन यः समागमः संश्लेषस्तेनाबद्धो जनितो बहुल: सुरतरुधूपो यत्र ॥ १९ ॥ हरिरव विलोलवारणगम्भीराबद्धसरसपुरुसंरावम् । घोणासंगमपङ्काविलसुबलभरसहोरुवराहम् ॥ २० ॥ L हरिरवेत्यादि — हरीणां सिंहानां यो रवस्तेन विलोलास्त्रस्नवो ये वारणा- स्तैर्गम्भीरो मन्द्र आबद्धो जनित :- सरसो भयानकरसयुक्तः पुरुर्महान् संरावो यत्र । घोणायाः संगमात् संपर्कात् संभवो यम्य पकस्य । घोणाससुद्धृतो यः पङ्क इत्यर्थः । तेनाविला: लिप्ताङ्गाः सुबलाः तत एव भरसंहाः उरवश्च वराहा यत्र । तगिरिजालमालमवगाढमिति ।। २० ।। अथासङ्कीर्णः श्लोकः- उच्चख्नु: परिरब्धान् कपिसङ्घा बाहुभिस्ततो भूमिभृतः ! निष्पिष्टशेषमूर्ध्नः शृङ्गविकीर्णोष्णरश्मिनक्षत्रगणान् ॥ २१ ॥