पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३६२) भट्टिकाव्ये जयमङ्गलासमेते- [ त्रयोदशः - हरहासरुद्धविगमं परकण्ठगणं महाऽऽहवसमारम्भे । छिन्दन्तु रामबाणा गम्भीरे मे जले महागिरिबद्धे ॥ १३ ॥ हरेत्यादि --- मे मम जले गम्भीरे अगाधे महागिरिभिर्बद्धे सति यो महाहवस्य समारम्भः प्रवर्तनं तास्मन् परस्य शत्रोः कण्ठगणं ग्रीवासमूहं हरस्य तुष्टत्वात् यो हासः तेन रुद्धो विगमश्छेदो यस्य तं रामशराशिछ• न्दन्तु । आशिषि लोट् ॥ १३ ॥ गच्छन्तु चारुहासा वरिरसाssबन्धरुद्धभय सम्बन्धम् | हन्तुं बहुबाहुबलं हरिकरिणो गिरिवरारुदेहं सहसा ॥ १४ ॥ गच्छन्त्वित्यादि --- बहवो बाहव एव बलं यस्य बाहूनां तरूणामि बहुत्वात् । तं रावणं वीररसस्य शौर्यस्य य आबन्धः सन्ततप्रवर्तनं तेन रुद्धो निवारितो भयसंबन्धस्त्राससंपर्कों यस्य तं गिरिवरारुदेहं गिरिव - न्महाकायं सहसा हन्तुं तत्क्षणं हनिष्याम इति हरिकरिणः कपिहस्तिनः चारुहासा: मम जले बद्धे सति गच्छन्तु ॥ एते षट् संकीर्णाः, संस्कृतप्राकृतयोस्तुल्यत्वात् ॥ १४ ॥ पूर्वार्द्धेऽसङ्कीर्णः श्लोकः । जिगमिषया: संयुक्ता बभूव कपिवाहिनी मते दाशरथेः । बुद्धजलाऽऽलयचित्ता गिरिहरणाऽऽरम्भसम्भवसमालोला ॥१५॥ जिगमिषयेत्यादि---दाशरथेर्मतेऽभिप्राये संति कपिवाहिनी कपिसेना जिगमिषया गन्तुमिच्छया संयुक्ता बभूव । बुद्धजलालयचित्ता विदितसमुं- द्राभिप्राया गिरणिां यद्धरणमानयनं तस्य य आरम्भसंभवः तेन समालोला आकुला इत्येतदर्धमसङ्कीर्णम् ॥ १५ ॥ अथ पञ्च संकीर्णाः श्लोकाः । गुरुगिरिवरहरणसह संहारहिमारिपिङ्गलं रामबलम् । आरूढं सहसा खं वरुणाऽऽलयविमलसलिलगणगम्भीरम् ॥ १६ ॥ गुर्वित्यादि -- ततो रामबलं सहसा तत्क्षणं खमारूढम् । गुरूणां गिरिव - राणां यदाहरणमानयनं तत्सहत इति मूलविभुजादित्वात् कः । तस्य वा सहं शक्तम् । सहत इत्यच् । संहारे प्रलये यो हिमारिरग्निः तद्वत्पिङ्गलम् । विमलसलिलगण: निर्मलजलसमूह: यो वरुणालयस्य समुद्रस्य तद्वद्गम्भीरं खमिति ॥ १६ ॥