पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्नकाण्डम् । (३६१) एतत्सर्व तव माया अपामुच्छोषकः, अहिम उष्ण: रवेः किरणगणः परमा महती संसारस्य कारणम् । सर्वथा त्वं विष्णुः त्वत्कृतेषु को रोष इति ॥ ९ ॥ अथ षट् सङ्कीर्णाः । आयाससम्भवारुण ! संहर संहार हिमहरसमच्छायम् । बाणं वारिसमूहं संगच्छ पुराणचारुदेहाऽऽवासम् ॥ १० ॥ आयासत्यादि -- यस्मात्संसारकारणं यदगम्यं सलिलं कृतं, तस्मात्त्वं हे आयाससंभवारुण रोषसंभवेन रक्तीभूत ! संहारे प्रलये हिमहरा आदित्यास्तैः समा छाया यस्य बाणस्य तं संहर उपशमय । घारिसमूहं संगच्छ अङ्गी- कुरु । सकर्मकत्वात् 'समो गम्यृच्छिभ्याम् ||१|३|२९| भवति । पुराण: शाश्वतः दर्शनीयो यो देह: इत्यात्मनेपदं न तस्य आवासम वस्थानम् ॥ १० ॥ असुलभ हरिसंचारं जलमूलं बहलपङ्करुद्धाऽऽयामम् । भण किं जलपरिहीणं सुगमं तिमिकम्बुवारिवारणभीमम् ॥११॥ असुलभेत्यादि -- अन्यच्च यदेतज्जलमूलं जलस्यावस्थानम् आग्नेयशरशो- पितत्वाजलपरिहीणं सत्, तत् किं सुखेन गम्यत इति भण ब्रूहि । यतो बहलः सान्द्रो यः पङ्कस्तेन रुद्ध आयामो दैर्घ्यं यत्र । तिमयो मत्स्याः कम्बवः शङ्खाः वारिवारणाः जलहस्तिन: तैर्भीमम् । एवं च सति असुलभो दुर्लभः हीरसंचारा वानरपर्यटनं यत्रेति ॥ ११ ॥ गमनोपायमाह- गन्तुं लङ्कातीरं बद्ध महासलिलसंचरेण सहलम् । तरुहरिणा गिरिजालं वहन्तु गिरिभारसंसहा गुरुदेहम् ॥ १२ ॥ गन्तुमित्यादि - संचरन्त्यनेनेति 'गोचरसंचरवहन- संचरः 1 व्यजापणनिगमञ्च | ३ । ३ । ११९ ।' इति घः । बद्धो घटितो महा- सलिले य: संचर: तेन सेतुना सहेलम् । एकप्रवृत्त्या लङ्कातीरं लङ्को- पलक्षितं तदं गन्तुं तरुहरिणा वानरा गिरिभारस्य संसहाः क्षमाः । संसहन्ते इत्यच् । गिरिजालं गिरिसमूहं वहन्तु प्रापयन्तु । गुरुर्देहः शरीरं यस्य गिरिजालस्य ॥ १२ ॥