पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३६०) भट्टिकाव्ये जयमङ्गलासमेते- [ त्रयोदशः- चञ्चलेत्यादि – चञ्चलश्चपलः तरुचहरिणानां वानराणां गणो यत्र जलतीरे । बहुकुसुमानां वृक्षाणामाबन्धेन परस्परसंश्लेषेण बद्धो घटितो रामावासो यत्र । हरिपल्लवानि तरुजालानि यत्र । तुङ्गा उरवः परिमण्डलाः समिद्धा उज्ज्वला ये तरुवरास्तैर्हिमा शीतला छाया यत्र तज्जलतीरम् ॥ ६ ॥ वरवारण सलिलभरेण गिरिमहीमण्डलसंवरवारणम् । वसुधारयं तुङ्गतरङ्गसङ्ग परिहीणलोलवसुधारयम् ॥ ७ ॥ ( एते सप्त संकीर्णाः श्लोकाः ) वरेत्यादि- -वरा उत्कृष्टा वारणा यत्र | सलिलभरेण सलिलसमूहेन यो गिरीणां महीमण्डलस्य च संवर: संवरणमावरणम् । 'ग्रहवृहनिश्चिगमश्च |३|३|५८ |' इत्यप् | तस्य वारणं निषेधकम् । समुद्रस्य वेलातिक्रमात् । वसु द्रव्यं तस्य धारयं घारकम् । 'अनुपसर्गाल्लिम्प विन्दधारिपारिवेद्युदेजि- चेतिसांतिसाहिभ्यश्च |३|१|१३८|| इति णिजन्ताच्छः । तुङ्गाः अभ्रंलिहा ये तरङ्गास्तैः सह यः संगः संश्लेषः तस्मात् परिहीणो नष्टो लोलो वसुधायां तत्सं- बन्धिन्यां रयो वेगो यत्र तजलतीरमारूढः । गणितक्रममेतत् । एते सप्त संकीर्णाः श्लोकाः । संस्कृतप्राकृतयोरविशिष्टत्वात् ॥ ७ ॥ a D प्राणपत्य ततो वचनं जगाद हितमायती पतिर्वारीणाम् । गङ्गाऽवलम्बिवाहूरामं बहलोरुहरितमालच्छायम् ॥ ८ ॥ प्रणिपत्येत्यादि--- ततस्तीर प्राप्तेरनन्तरं वारीणां पतिः समुद्र: रामं प्रणि- पत्य वचनं जगाद । हितमात्मनो रामस्य पथ्यमायतावागामिनि काले । गङ्गा- वलम्बी गङ्गावलम्बनशील: संपूर्णत्वाद्वाहुर्यस्य स गङ्गावलम्बिबाहुः । संस्कृते 'ट्र्लोपे पूर्वस्य दीर्घोऽणः |६|३|११|| प्राकृते तु पुंलिङ्गेः उकारस्य दीर्घत्वम् । विभक्तिसकारस्य च लोपः । उरुर्महान् हरिः हरितो यस्तमाल: । बहुला घना तस्येव छाया यस्य तमिति । पूर्वार्धे निरवद्यमिति । पूर्वस्मिन्नर्धे प्राकृतस्याभावा- तू निरवद्यं पश्चादर्धे तु संकीर्णमेव ॥ ८ ॥ तुङ्गा गिरिवरदेहा अगमं सलिलं समीरणो रसहारी । अहिमो रविकिरणगणो माया संसारकारणं ते परमा ॥ ९ ॥ तुङ्गा इत्यादि - गिरिवर देहा: कुलपर्वतकायाः तुङ्गाः प्रांशवः, अगमं सलिलम् अगम्यम् । 'ग्रहवृहनिश्चिगमश्च |३|३|५८|' इत्यपू । समीरणो रसहारी