पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] ( ३५९ ) प्रसन्नकाण्डम् । गाढगुरुपुङ्खपीडासधूमसलिलाऽरिसंम्भवमहाबाणे | आरूढा सन्देहं रामे समहीधरा मही सफणिसभा ॥ ३ ॥ गाढेत्यादि — गाढं सुष्ठु गुरोः पुङ्खस्य या पीडा पीडनम् अङ्गुष्ठाभ्यां तया हेतुभूतया सधूमसलिलारे: अनेः संभवो यत्र स महाबाणो यस्य रामस्य तस्मिन् सति । महासंदेहमारूढा संशयं प्राप्ता समहीघरा मही सफणिसभा सह भुजङ्गसमूहेन । धारयन्तीति धराः । अत्र धकारस्य पदमुखे वर्त- मानस्य हकारो न भवति, प्राकृते पद्मध्यान्तयोर्विधीयमानत्वात् । मही- धर इति समस्त पदेऽपि न प्रवर्तते । अत्र पूर्वपदमुत्तरं पदमिति व्यपदेशात् । एवं च सति गोधर - वज्रधर-चक्रधर-शङ्खधरादिषु न प्रवर्तते । महीधरो महिधर इत्युभयमपि प्राकृते प्रयुज्यते, अमहानां विकल्पेन ह्रस्वदर्शनात् ॥ ३॥ समन्तात् धोरचलदन्तिसंकुलमट्टमहापङ्ककाहलजलाSSवासम् । आरीणं लवणजलं समिद्ध फलबाणविद्धघोरफणिवरम् ॥ ४ ॥ घोरेत्यादि — रामेणाग्नेये शरे क्षिप्ते सति लवणजलमारीणं शुष्क म्। 'रीङ् स्रवणे' इत्यस्मात् निष्ठातकारस्य 'स्वादय ओदितः' इति ओदित्त्वे ‘ओदितश्च ।८।२।४५।' इति नत्वम् । 'अट्कुप्वाङ्नुमूव्यवायेऽपि | ८ | १४ | २ |' इति णत्वम् । रोणमित्यप्रयोगः, प्राकृते महाराष्टे तस्याप्रयोगात् । घोरै: रौद्रैर्जलद- न्तिभि: संकुलं व्याप्तम् । अट्टः शुष्को यो महापङ्कः तेन काहला विह्वला जलावासा मत्स्यायो यत्र । 'अट्ट अतिक्रमहिंसनयोः' इत्यस्य रूपम् । सीमद्धफलेन दप्तिफलेन बाणेन विद्धाः घोराः फणिवरा महासर्पा यत्रेति ॥ ४ ॥ 1 सभयं परिहरमाणों महाऽहिसंचारभासुर सलिलगणम् | आरूढी लवणजलो जलतीरं हरिबलाSSगमविलोलगुहम् ॥ ५ ॥ समयमित्यादि --सलिलगणं सलिलसमूहं सभयम् । महाहीनां संचारेण भासुरं भासनशीलम्, तच्छिरोमणिद्योतितत्वात् । परिहरमाणः परित्यजन् । कर्त्रभिप्राये तङ् | लवणजल: समुद्रः लवणं जलमस्येति । जलतीरं तटं यत्र रामस्तिष्ठति तदारूढः संप्राप्तो मूर्तिमान् । हरिबलागमेन वानरसैन्यागमेन विलोला व्याकुला गुहा यत्रेति ॥ ५ ॥ चञ्चलतरुहरिणगणं बहुकुसुमाऽऽवन्धबद्धरामाऽऽवासम् । हरिपल्लवतरुजालं ढुङ्गोरुसमिद्ध तरुवरहिमच्छायम् ॥ ६॥