भट्टिकाव्ये जयमङ्गलासमेते- त्रयोदशः सर्गः । अथ संकीर्णकाः श्लोकाः । । काव्यं संस्कृतप्राकृतापभ्रंशभेदात्रिविधम् । तत्र शब्दद्भवदेशीयपदयोः प्राकृतभाषयोर पभ्रंशस्य च संस्कृतभाषायां समावेशासम्भवात् शब्दसमाया: प्राकृतभाषायाः समावेशः । तमार्यागीयो स्कन्धकलक्षणया दर्शयितुं विभी- षणागमनात्प्राक् यद्वृत्तं समस्य तदाह —- अथ सप्तभिः कुलकम् । ( ३५८ ) [ त्रयोदशः- चारुसमीरणरमणे हरिणकलङ्क किरणाऽऽवलीसविलासा | आबद्धराममोहा वेलामूळे विभावरी परिहीणा ॥ १ ॥ चार्वित्यादि — रामो रात्रौ निद्रावान् पल्लवशयनमध्यष्ठादित्युक्तम् । तस्य नियमपूर्व सुप्तवतः प्रभातमभूदितिं कथयति । वेलामूळे पारसमीपे । प्राकृते पुंलिङ्गनपुंसकयोराकारान्तस्य पदस्य सप्तम्यां एकवचने मित्वमेत्वं वा रूपम् । चारुसमीरणरमणे रमयतीति रमणम् । 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः । ३ । १ । १३४ |' इति नन्द्यादित्वात् ल्युः । समीरणेन रम- गम् । चारु च तत्समीरणरमणं चेति । तत्र विभावरी रात्रिः परिहीणा क्षीणा | हरिणकलङ्कस्य याः किरणावल्यः ताभिः सविलासा सविभ्रमा । अतश्चाबद्धो रामस्य मोहो मूर्च्छा ययेति । 'कृदिकारादक्तिनः' इत्यनेन आवलिरावलीत्युभयमपि संस्कृतप्राकृतयोः प्रयुज्यते ।। १ ।। बद्धो वासरसङ्गे भीमो रामेण लवणसलिलाऽऽवासे । सहसा संरम्भरसो दूराऽऽरूढरविमण्डलसमो लोले ॥ २ ॥ बद्ध इत्यादि — नियमस्थितेऽपिमयि नासौ समुद्र उत्थित इति वास रसङ्गे प्रभातकाले रामण लवणसलिलावासे समुद्रे इति विषयसप्तमी । सहसा तत्क्षणं संरम्भरसःउत्साहरसो वीराख्यः भीमो दुष्प्रेक्ष्यः बद्धो जनितः । दूरारूढरविमण्डलसमो लोक इति दूरमारूढो मध्याहस्थो यो रविः तस्य मण्डलं तेन समस्तुल्योऽतितीक्ष्णत्वात् । लोले चञ्चले समुद्रे प्रभात वातेन क्षोभ्यमाणत्वात् ॥ २ ॥ १ अत्र 'आयपूर्वार्द्ध यदि गुरुणैकेनाधिकेन निधने युक्तम् । इतरत्तद्वन्निखिल दलं यदीयमुदितैव मार्यागीतिः ॥' इति लक्षणम् । एवं परत्रापि ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३९६
दिखावट