पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्म: ] प्रसन्नकाण्डम् | (३५७) इतीत्यादि- - इत्येवं वचनं बहुगुणम् अर्थावगाढत्वात् असकृत् बहुत्वात्, प्रसभम् आह्त्य रजनिचरपतिमभिधत् ब्रुवन् । 'नास्यस्ताच्छतुः |७|१२|७८।' इति नुम्प्रतिषेधः । रजनिचर इति 'ङथापो: संज्ञाच्छन्दसोर्बहुलम् |६|३|६३ | ' इति संज्ञायां ह्रस्वत्वम् । पुरुषरिपुपुराल्लङ्कातः निरगमत् निष्कान्तः । अभयः सन् नरपतिचरणौ रामस्य पादौ अरिभिरपि नुतौ शरत्वात् 'युकः किति । ७ । २ । ११ ।' इंतीप्रतिषेधः । नवितुं प्रणामपूर्वकं स्तोतुम् । अनेकार्थ- त्वाद्धातूनां नन्तुमित्यैर्थः ॥ ८६ ॥ अथ तमुपगतं विदितसुचरितं पवनसुतगिरा गिरिगुरुहृदयः । नृपतिरमदयन्मुदितपरिजनं स्वपुरपतिकरैः सलिलसमुद्यैः ॥८७॥ इति महावैय्याकरणभट्टीप्रणीते रामचरिते काव्ये प्रसन्नकाण्डे भाविकत्व प्रदर्शन स्तृतीयः | समाप्तो द्वादशः सर्गः ॥ अथेत्यादि -- अथ अनन्तरं विभीषणमुपेतं सेतुबन्धचिन्ताकाले राममु पगतवानिति द्रष्टव्यम् । अन्यथा वक्ष्यमाणप्रभातकथनं विरुध्येत । पवनसुतगिरा हनूमद्वचनेन सञ्चरितोऽयमिति विदितं सुचरितं येन । नृपतिः रामः गिरिगुरुहृदयः गिरिवत् गुरु अप्रकम्पं हृदयं यस्य । सलिंल - समुदयैः जलपूर्णघटे स्थितैः स्वपुरपतिकरैः । लङ्काधिपतिं कुर्वन्तीति हेता टः । अमदयत् हर्षितवान् । 'मदी हर्षे' इत्यस्य हेतुमण्ण्यन्तस्य घटादित्वान्मित्त्वे इस्वत्वम् । मुदितपरिजनं स्वामी लङ्काधिपत्येऽभिषिच्यत इति तस्य दृष्टा अनुजीविन इत्यर्थः ॥ ८७ ॥ इति श्रीजयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री भाट्टप्रणीते राम- चरिते काव्ये तृतीये प्रसन्नकाण्डे लक्षणरूपे तृतीयः परिच्छेदः, लक्ष्यरूपे कथानके 'विभीषणाऽगमनो' नाम द्वादशः सर्गः । १ अस्मिन् परस्मिंश्च पद्ये 'ननभनलगिति प्रहरणकंलिता । इति वृत्तरत्नाक- रोक्त्या 'प्रहरणकलिता' नाम च्छन्दः ।