(३५६) भट्टिकाव्ये जयमङ्गलासमेते- [ द्वादशः मूर्खोय आतुरः पथ्यकटूननइनन् अभक्षयन् यत् आसयेन रोगेण सह वर्त्तत इति सामयो रोगवान् असौ भिषजां वैद्यानां न दोषः, किंतु तस्यैव ॥ ८२ ॥ करोति वैरं स्फुटमुच्यमानः प्रतुष्यात श्रोत्रसुखैरपथ्यैः । विवेकशून्यः प्रभुरात्ममानी, महाननर्थः सुहृदां बताऽयम् ॥ ८३ ॥ करोत्यादि-प्रभुकेशून्यो नास्तीति आत्मानं निर्विवेकः । आत्ममानी मत्समोऽन्यो लाघमानः । आत्ममाने इनिः । स्फुटमुच्यमानो वैरं करोति स्नेहं न करोति पथ्यमनेनोक्तमिति । श्रोत्रसुखैः तदर्थमनोहा- रिभिः अपथ्यैस्तुष्यति । तस्मादयं प्रभुः सुहृदामाश्रितानां महान् अनर्थ: । अनर्थहेतुत्वात् । बतशब्दः खेदे ॥ ८३ ॥ क्रीडन्भुजङ्गेन गृहाऽनुपातं कश्चिद्यथा जीवति संशयस्थः । संसेवमानो नृपति प्रमूढं तथैव यज्जीवति सोऽस्य लाभः ॥ ८४ ॥ क्रीडन्नित्यादि --- यथा कश्चित् सर्पग्राही गृहानुपातं गृहं गृहमनुपत्य | 'विशि- पतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः | ३ | ४ । ५६।' इति णमुले । भुजङ्गेन सह क्रीडन् जीवति संशयस्थ: संदेहे वर्तमानः किमयं खादिष्यति न वेति । तथैव प्रमूढं मूर्खमधिपतिं संसेवमानो यज्जीवंति सोऽस्य लाभ: । आस्ता- मन्यो लाभः इति ॥ ८४ ॥ दत्तः स्वदोषैर्भवता प्रहारः पादेन धर्म्ये पथि मे स्थितस्य । स चिन्तनीयः सह मन्त्रि मुख्यैः कस्याऽऽवयोर्लाघवमादधातु ॥८५ ॥ दत्त इत्यादि ----स्वदोषैरविवेकित्वादिभिर्भवता पादप्रहार: यो मम वर्म्ये धर्मादनपेते मार्गे स्थितस्य दत्तः, स मन्त्रिमुख्यैरेतैः सह चिन्तनीयः । आवयोर्मध्ये कस्य लाघवमादधातु करोत्विति । यावन्निरूप्यमाणस्तव- वति भावः ॥ ८५ ॥ इति वचनमसौ रजनिचरपति बहुगुणमस कृत्प्रसभमभिद्धत् । निरगमद्भयः पुरुषरिपुपुरान्नरपतिचरणौ नवितुमरिनुतौ ॥८६॥ १ कर्त्तव्याकर्त्तव्यविवेचनतः पराङ्मुखः | २ यावजीवति । ३ तावजीवनरूपः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३९४
दिखावट