पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ]. प्रसन्नकाण्डम् । ( ३५५) आणी चान्ये यस्येति । ईदृशं ज्ञातिचेलं गर्हितज्ञा- तिरस्माकं कुले मा भूत् कस्यचिदन्यस्य वा मा भूत् । चेलंशब्दो गर्हिते वर्तते ॥ ७८ ॥ इच्छन्त्यमीक्ष्णं क्षयमात्मनोऽपि न ज्ञातयस्तुल्यकुलस्य लक्ष्मीम् । नमन्ति शत्रून्न च बन्धुवृद्धिं सन्तप्यमानैर्हदयैः सहन्ते ॥७९॥ इच्छन्तीत्यादि-ज्ञातयः आत्मनः सुप्ठु क्षयं विनाशमिच्छन्ति, न पुनस्तुल्यकुलस्य एकहेतुगोत्रस्य लक्ष्मी श्रियम् । तथा शत्रु कामं नमन्ति, न पुनर्बन्धुवृद्धिं वन्धुसन्ततिं सहन्ते । संतप्यमानैर्हृदयैः ईर्ष्यया दह्यमानैः ॥ ७९ ॥ किं मया कृतं येनैवमुच्यत इति चेदाइ---- त्वयाऽद्य लङ्काsभिभवेऽतिहर्षाद्दुष्टोऽतिमात्रं विवृतोऽन्तरात्मा । धिक त्वां मृषा ते मयि दुस्थबुद्धिर्वदन्निदं तस्य ददौ स पाणिम् ॥८० ॥. स्वयेत्यादि---लङ्काऽभिभव लङ्गोपरोघे अतिहर्षात् हर्षेण दुष्टोऽन्तरात्मा 'अतिमात्रं सुष्ठु त्वयाऽद्य विवृतः प्रकाशितः । मयि दुस्थबुद्धिः अस्मद्विषये दुस्थोऽभियुक्तोऽयमिति बुद्धिः ते मृषा मिथ्या । अतस्त्वां गति वदन् स दशाननः तस्य विभीषणस्य सिंहासनोपाश्रितबाहोः पाणि पादप्रहारं शिरसि ददौ ॥ ८० ॥ ततः स कोपं क्षमया निगृह्णन् धैर्येण मन्युं विनयेन गर्वम् । माहं धियोत्साहवशादशक्ति समं चतुर्भिः सचिवैरुदस्थात् ॥ ८१ ॥ तत इत्यादि - ततः पाणिप्रहारादनन्तरं स विभीषणः कोप क्षमया क्षान्त्या निगृह्णन् अभिभवन्, तथा धैर्येण मन्युं शोकं, विनयेन गर्व, मोहं वैचित्त्यं घिया प्रज्ञया, उत्साहवशादशक्तिमसामर्थ्य निगृह्णन् अप- मानेन कोपार्दानां संभवात् । चतुर्भिः सचिवैरमात्यैः समं सार्धमुद- स्थात् आसनादुत्थितः ॥ ८१ ॥ उखाच चैनं क्षणदाचरेन्द्रं सुखं महाराज विना मयाऽऽस्स्व । मूर्खाऽऽतुरः पथ्यकटूनन नन्यत्साऽऽमयोऽसौ भिषजां न दोपः ॥८२ || - उवाचेत्यादि – उत्थितश्चानन्तरं रावणमुवाच - हे महाराज ! मया विना सुखमास्व तिष्ठ । आस्तेर्लोट् । तवात्र दोषो न ममोपदेष्टुः । यस्मान्मूर्खातुरः