( ३५४ ) भट्टिकाव्ये जयमङ्गलासमेते- [ द्वादशः - निष्ठानत्वम् । संकीर्णैः इतस्ततो विक्षिप्तैः, विपन्नमृतभिन्नविदारितदेहै:, प्रक्षुण्णैः । एभ्यो 'रदाभ्यां निष्ठातो नः पूर्वस्य च दः |८|२||४२ |' इति नृत्वम् । संहीणैर्लज्जितैः वयमेवमवस्थां नीता इति । शितेन तीक्ष्णेन अस्त्रेण वृक्णैः छिन्नैः । 'ग्रहिज्यावयव्याधवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च ।६।१।१६।' इति सम्प्रसारणम् । संयोगादिलोपः । कुत्वं च । ओदित्त्वान्नत्वम् ॥ ७५ ॥ 3 भ्रूभंङ्गमाधाय विहाय धैर्य विभीषण भीषणरूक्षचक्षुः । - गिरं जगादोग्रपदामुदग्रः स्वं स्फावयन् शऋरिपुः प्रभावम् ॥७६ ॥ भ्रूभङ्गमित्यादि – शक्ररिपुर्दशाननः विभीषणवचनात् क्रुद्धः । भूभङ्ग भ्रूकुटिमाधाय आबद्धय धैर्य विहाय त्यक्त्वा भीषणरूक्षचक्षुः भयानकपरुष- चक्षुः । उदग्रः उन्नामितदेहः स्वं प्रभावं विक्रमं स्फावयन् वर्धयन् । 'स्फायो वः ।७।३।४१।' इति णौ वत्वम् । विभीषणं जगाद गिरं वाचम् | उग्रपदां • सुप्तिङन्तानां स्वरूपतोऽर्थतश्च परुषत्वात् ॥ ७६ ॥ शिला तरिष्यत्युदके न पर्ण ध्वान्तं रवेः स्यन्त्स्थति वहिरिन्दोः । जेता परोऽहं युधि जेष्यमाणस्तुल्यानि मन्यस्व पुलस्त्यनप्तः॥७७॥ शिलेत्यादि--उदके शिला तरिष्यति न पुनः पर्णम् । रवेः सूर्यात् ध्वान्तमन्धकारं स्यन्त्स्यति स्रविष्यति । 'स्यन्दू प्रस्रवणे' इत्यस्मात् 'न वृद्भयश्चतुभ्यः |७|२||५९|| इतीट् न भवति । 'खरिच |८|४|५५|| इति चर्त्वम् । तथा वह्निरिन्दोः स्यन्त्स्यति । अहमध्येष पर उत्कृष्ट: जेता युधि सङ्ग्रामे . जेष्यमाण इत्येतानि चत्वारि हे पुलस्त्यनतः विभीषण ! तुल्यानि मन्यस्व अवगच्छ । 'मन ज्ञाने' लोटि रूपम् | यदि जेताऽव्यहं परेण जीये शिलातरणा- दीन्यपि भविष्यन्ति ॥ ७७ ॥ अनिवृतं भूतिषु गूढवैरं सत्कारकालेऽपि कृताऽभ्यसूयम् । विभिन्न कर्माऽऽशयवाक् कुले नो मा ज्ञातिचेलं भुवि कस्यचिद् भूत्७८ ज्ञातिसंबन्धिनषु अनिर्वृतमसुखिनम् । अनिर्वृतमित्यादि --भूतिषु गृढवैरं काले हनिष्यामीति संभृतापकाराशयम् । सत्कारकालेऽपि पूजाकाले- ऽपि कृतामर्षम् । विभिन्ना: कर्माशयवाचो यस्य तद्विभिन्नकर्माशयवाक् । १ इदमधिकम्, जगादेत्यनेनैव गतार्थत्वात् ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३९२
दिखावट