पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्नकाण्डम् | (३५३ ) मांसमित्यादि--राक्षसानां हतानामिव मांसमाशंसवः आशंसनशीला: 'सनाशंसभिक्ष उः | ३|२|१६८१ मांसभुजः शृगालादयः क्रूरागरः परुषस्व- नाः कृशानुवक्राः ज्वलनसदृशवदना: निर्भयाः परितो भ्रमन्ति ॥ ७२ ।। पयो घटोनीरपि गा दुहन्ति मन्दं विवर्ण विरसं च गोपाः । हव्येषु कटोपजनः सकेशो न दीप्यतेऽग्निः सुसमिन्धनोऽपि ॥७३॥ पय इत्यादि --- गोपाः पयः क्षीरं विवर्ण दुर्वर्ण विरसम् अस्वादु मन्दम् अल्पं पयस्विनीरपि दुहन्ति । 'अकथितं च ॥१॥४॥५१॥ इति द्विकर्म- कता । तथा 6 शोभनेन्धनोऽप्यग्निर्न दीप्यते, हव्येषु हवनीयेषु घृतादिषु सत्सु । 'अचो यत् |३|१||९७१' उपजननमुपजनः । 'भावे |३|३|१८ । इति घञ् । जनिवध्योश्च |७|३|३५|' इति न वृद्धिः । कीटानामुपजनोऽस्यति कीटोपजनः, सहकेश: सकेश: दह्यमान- कीटकेश इत्यर्थः ॥ ७३ ॥ तस्मात् कुरु त्वं प्रतिकारमस्मिन्स्नेहान् मया रावण भाष्यमाणः । वदन्ति दुःखं ह्यनुजीविवृत्ते स्थिताः पदस्थं परिणामपथ्यम् ॥ ७४॥ तस्मादित्यादि-- यस्मादेवं विनाशसूचकानि निमित्तानि दृश्यन्ते, तस्मात् हे रावण ! स्नेहान्मया त्वं भाष्यमाणः अस्मिन् वस्तुनि प्रतिकारं सीताप्रत्यर्प सन्धानं कुरु । 'उपसर्गस्य घञ्यमनुष्ये बहुलम् |६|३|१२२|' इति बहुलग्रहणान दीर्घः । कस्मादेवं भाष्यत इति चेत् यस्मादनजीविवृत्तेऽवस्थिताः यद्वचनं दुःखं दुःखहेतुस्तदा कटुकत्वात् । परिणामपथ्यम् आयेत्यां हितं तत्पदस्थं स्वामिपदे स्थितं वदन्ति ॥ ७४ ॥ विरुग्णसङ्कीर्णविपन्नभिन्नैः प्रक्षुण्णसंहीणशिताऽस्त्रवृक्णैः । यावन्नराशैर्न रिपुः शवाशान् सन्तर्पयत्यानम तावदस्मै ॥ ७५ ॥ विरुग्णेत्यादि—यावद्रिपुः नराशै: नरानश्नन्ति भुञ्जत इति तैराक्षसः शवाशान् गृध्रशृगालादीन् । शवं मृतशरीरमश्नन्ति इति 'कर्मण्य | ३||२||१|| इत्युभयत्राण् । न संतर्पयति न प्रीणयति तावदस्य रिपो: आनम चरणा- वित्यर्थात् । कीदृशैः । विरुग्णैर्भिन्नाङ्गैः । 'ओदिश्च |८|२|४५ |' इति १ उत्तरस्मिन् काले ।