(३५२) भट्टिकाव्ये जयमङ्गलासमेतें- [ द्वादश कि दुर्नयैरित्यादि- त्वय्यपि स्थिते 'किं द्यौरधोऽस्तु' इत्यादिना यान्युदितान्ययुक्तानि अलीकार्थानि तैर्दुर्नयैः किम् । न किंचित् फलम् । कस्मादिति चेत् यस्मात्तेषां समाधिं प्रतीकारं संग्रामे रामसम्बन्धिना वीर्येण वक्ताऽस्मि वदिताहम् । रामवीर्यप्रतीकाराद्धीत्यर्थः । इत्थमेव तस्मिन् कुम्भकर्णे उक्त्वा पुनः भूयः प्रसुप्ते सति विभीषणो राक्षसे- न्द्रमभाषत ॥ ६८। निमित्तशून्यैः स्थगिता रनोभिर्दिशो मरुद्भिविकृतर्विलोलैः । स्वभावहीनैर्मृगपक्षिघोषैः क्रन्दन्ति भतरामवाभिपन्नम् ॥ ६९ ॥ निमित्त शून्यैरित्यादि-- रजोभिनिमित्तशुन्यैः निनिमित्तैः दिश: स्थगिता: संछादिता: । 'स्थग संवरणे' मरुद्भिश्च विकृतैः परुपैर्विलोलरानियतादग्वातभिः स्थगिताः । मृगपक्षिणां च घोषैः स्वभावहीनै भ्रष्टैर्भर्तारमिवाभिपन्नं मृतं शोकात् ऋन्दन्ति ॥ ६९ ॥ 911 3 उत्पातजं छिद्रमसौ विवस्वान् व्यादाय वक्राकृति लोकभीष्मम् | अनुं जनान्धूसररश्मिराशिः सिंहो यथा कीर्णसटोऽभ्युदेति ॥ ७० ॥ उत्पात जमित्यादि – असौ विवस्वान् छिद्रम् उत्पातजं वक्राकृति लोक- भीष्मं लोकस्य भयानकं व्यादाय प्रसार्य | व्यापूर्वस्य ददातेः क्त्वो ल्यपि रूपम् । जनानत्तुं भक्षयितुं धूसरराश्मिराशि: सन् अभ्युदेति उद्गच्छति । यथा सिंह: कीर्णसटः विक्षिप्तकेसरकलापः सुखं व्यादायात्तु- मुत्तिष्ठति तद्वदिति भावः ॥ ७० ॥ मार्गे गतो गोत्रगुरुभृंगूणामगस्तिनाध्यासितविन्ध्यङ्गम् । सन्दृश्यते शऋपुरोहितोऽद्दिक्ष्मां कम्पयन्त्यो निपतन्ति चोलकाः ॥ ७१॥ मार्गमित्यादि--अगस्तिना यध्यासितं विन्ध्यशृङ्गं तन्मार्गे भृगूणां गोत्रगुरुः शुक्रो गतः । दक्षिणमार्गचारी शुक्र इत्यर्थः । विश्वगिरिहि दक्षि- णदिशि । शऋपुरोहितोऽपि बृहस्पतिः अह्न दिवसे संदृश्यते । उल्काश्च क्ष्मां पृथिवीं कम्पयन्त्यः निपतन्ति ॥ ७९ ॥ मांसं हतानामिव राक्षसानामाशंसवः क्रूरगिरोरुवन्तः । ऋव्याशिनो दीमकुशानुवका भ्राम्यन्त्यभीताः परितः पुरं नः ॥७२॥
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३९०
दिखावट