पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रसन्नकाण्डम् | (३५१) सर्गः 1 औष्ण्यमुष्णतां त्यजेत् । संभावने लिङ । अथवा हिमांशनिशायामपि शैत्यं त्यजेत् । भुवनावमानी पुनर्भुवनमवमन्तुं शीलमस्येति । नास्ति मत्सम इति स भवादृशो मानं न त्यजेत् । अनर्थमूलम् अनर्थस्य कारणम् । एवं मन्ये जानामि ॥ ६४ ॥ तथाऽपि वक्तुं प्रसभं यतन्ते यन्मद्विधाः सिद्धिमभीप्सव स्त्वाम् | विलोमचेष्टं विहितावहासाः परैर्हि तत्स्नेहमयैस्तमोभिः ।। ६५ ।। तथापीत्यादि -- तथापि एवमपि सति मद्विधाः सिद्धिं कार्यनिष्पत्ति- मभीप्सवः आप्तुमेषणशीलाः । यत्त्वां विलोमचेष्टं प्रतिकूलचेष्टितम् । प्रस- भमाहत्य वक्तुं यतन्ते । परैः दूतजनैः शत्रुजनैर्वा विहितावहासा एवं विधा अप्युपदिशन्तीति । हिशब्दः पादपूरणे । तत्स्नेहमयैः स्नेहस्वभावै- स्तमोभिरज्ञानैः । स्नेहतमसावृता ब्रुवन्तीत्यर्थः ॥ ६५ ॥ क्रराः क्रिया ग्राम्यसुखेषु सङ्गः पुण्यस्य यः संक्षयहेतुरुक्तः । निषेवितोऽसौ भवताऽतिमात्रं फलत्यवल्गु ध्रुवमेव राजन् ॥ ६६ ॥ क्रूरा इत्यादि--क्रूराः क्रिया: परहिंसादयः, ग्राम्यसुखेषु परदारोपभो गादिषु सङ्गः प्रसक्तिः, (यः पुण्यस्यार्जितस्य संक्षयहेतुरुक्तः विद्यावृद्धैः । असौ भवतातिमात्रं सुष्ठु निषेवितः सन् हे राजन्निदांनीं फलति फलं ददा- तिं । अवल्गु असारम् । ध्रुवमविनाशम् ॥ ६६ ॥ तस्माद्विलोमचेष्टस्यं भवतो हितोपदेशे मम न किंचित् प्रयोजनं, तावत्तु स्यात् त्वदर्थं मत्प्राणत्याग इति दर्शयन्नाह -- दत्तं न कि के विषया न भुक्ताः स्थितोऽस्मि वा कं परिभूय नोच्चैः । इत्थं कृतार्थस्य मम ध्रुवं स्यान्मृत्युस्त्वदर्थे यदि किं न लब्धम् ॥६७ ॥ दत्तमित्यादि -- तव प्रसादादार्थभ्यः किं न दत्तम्, के विषया न भुक्ता: सर्व एवानुभूताः । कं वा परिभूय तिरस्कृत्य उच्चैर्महति पदे न स्थितोऽस्मि । इत्थमनेन प्रकारेण कृतार्थस्य लब्धजन्मफलस्य मम यदि त्वदर्थे मृत्यु - रवश्यं स्यात्, तदा किं न लब्धम् | सर्वमेव जन्मफलं लब्धमित्यर्थः॥ ६७॥ तव पुनरद्यापि विभीषणोक्तं युक्तं, न प्रहस्तमुखोक्तमिति दर्शयन्नाह - किं दुर्नयैस्त्वय्युदितैर्मृषाऽर्थैर्वीर्येण वक्ताऽस्मि रणे समाधिम् । तस्मिन् प्रसुप्ते पुनरित्यमुक्त्वा विभीषणोSभाषत राक्षसेन्द्रम् ॥ ६८ ॥