पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३५० ) भट्टिकाव्ये जयमङ्गलासमेते- [ द्वादशः - घोषेणेत्यादि — प्रहस्तविभीषणमातामहानां वदतां यो घोषः तेन प्रति- लब्धसंज्ञो विबुद्धः कुम्भकर्णो निद्रयाऽऽविले अक्षिणी यस्योत सः । निद्रायाः सामस्ये नानपगमात् कंषायितचक्षुः श्रुतकार्यसार: श्रुतकार्यतत्त्वः । ततः कार्यसारश्रवणानन्तरं वाक्यमभाषत । यथा घन: साम्बु: सजलोऽन्तरिक्ष वियति स्फूर्जति तद्वत् स्फूर्जन्निति ॥ ६१ ॥ कार्य निश्चित्य सदसि भाषणानि न पञ्चाङ्गमन्त्रं विनेति साङ्गं तं तावदु- पदर्शयन्नाह - क्रियासमारम्भगतोऽभ्युपायो नृद्रव्य सम्पत्सहदेश काला । विपत्प्रतीकारयुतार्थसिद्धिर्मन्त्राङ्ग मेतानि वदन्ति पञ्च ॥ ६२ ॥ क्रियेत्यादि–क्रियाणां दुर्गादिकर्मणां यः समारम्भस्तं गतः प्राप्तो यो- ऽभ्युपायः कर्मणामारम्भोपाय इत्यर्थः । इदमेकमङ्गम् । नृद्रव्यसम्पत् पुरु- षाणां द्रव्याणां च सम्पदिति द्वितीयम् । द्वयोस्सहवचनं योगवाहित्वज्ञा- पनार्थम् । सहदेशकालेति । यस्मिन् देशे काले च कार्यसिद्धिस्ताभ्यां तृतीयम् । अत्रापि सहवचनं योगादेव । कर्मणाम - श्रीयमानानां या विपत्तस्याः प्रतीकारस्तेन युक्तेति चतुर्थम् । अर्थसिद्धिः कार्यसिद्धिरिति पञ्चमम् । एतानि पञ्च मन्त्रस्याङ्गानि वदन्ति नीतिज्ञाः ||६२॥ न निश्चितार्थं समयं न देशं क्रियाभ्युपायाऽऽदिषु योऽतियायात् । से प्राप्नुयान्मन्त्रफलं न मानी काले विपन्ने क्षणदाचरेन्द्र ॥ ६३ ॥ नेत्यादि — विनिश्चितार्थोऽवयं सिध्यतीति यस्मिन् समये काले देशे च कार्यसिद्धिः तादृशं समयं देशं च यो विजिगीषुर्नातियायात् नातिक्रामेत् । प्रतिषेध्यस्य द्वित्वात् प्रतिषेधद्वयं योज्यम् । समय च देशमिति पाठान्तरे समुच्चयेनैक एव योज्य: । क्रियाभ्युपायादिषु सत्सु, आदिशब्दात् पुरुषद्रव्यं संपद्विपत्प्रतीकारे च स प्राप्नुयान्मन्त्रफलम् । हे क्षणदाचरेन्द्र ! न पुनर्मानी भवादृशः काले विपन्ने प्राप्नोति । स हि देशकाला हापयति ।। ६६ । औष्ण्यं त्यजेन्मध्यगतोऽपि भानुः शैत्यं निशायामथवा हिमांशुः । अनर्थमूलं भुवनाऽवमानी मन्ये न मानं पिशिताशिनाथ ॥ ६४ ॥ औष्ण्य मित्यादि- हे पिशिताशिनाथ ! भानुर्मध्यगतोऽपि मध्याह्नेऽपि १ मांसभक्षकाधीश राक्षसेश्वर, इत्यर्थः ।