पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्नकाण्डम् | ( ३४९ ) ब्रह्मत्यादि – सदेवैर्ब्रह्मादिभिः संतापितैः रात्रिचरक्षयाय नूनमयं राम उपायो विहितः उत्पादितः। नराकृतिः आकृत्यैव केवलं नरः । वानरसैन्यशाली आढयः । अजय्यो जेतुमशक्यः ॥ .५७ ॥ दृष्टश्चैवं प्रकारो देवानां मयेति दर्शयन्नाह - - वज्राऽभिघातरविरुग्णमूर्ते: फेनैर्जलानामसुरस्य मूर्ध्नः । चकार भेदं मृदुभिर्महेन्द्रो यथा तथैतत्किमपीति बोध्यम् ॥५८॥ वज्राभिघातैरित्यादि – वाभिघातैरपि अविरुग्णमूर्ते: अचूर्णितशरी- रस्य असुरस्य नमुचे: संबन्धिनो मूर्ध्ना जलफेनैर्मृदुभिः भेदं चकार यथा तथैतदपि शमे स्थितानामपि देवानां नराकृति वस्तु किमपीति बोद्धव्यम् ।। ५८ ।। अन्यथा कथं फेनपिण्डैर्विनाश इत्याहू- क्व स्त्रीविषह्याः करजाः क्व वक्षो दैत्यस्य शैलेन्द्रशिलाविशालम् | संपश्यतैतद् द्रुषदां सुनीतं बिभेद तैस्तन्नरसिंहमूर्तिः ॥ ५९ ॥ कत्यादि—स्त्रीविषह्याः स्त्रीभिः विषोढुं शक्या: करजा नखाः क्व । दैत्यस्य हिरण्यकशिपोः शैलेन्द्रशिलावत् विशालं वक्षःक च । वैक्षःकरजयोरपि दूरमन्तरं तथापि द्युषदां देवानाम् एतत्सुनीतं सुनयं संपश्यत । यत् तैर्नखैर्नरसिंहमूर्तिः तद्वक्षो बिभेद ।। ५९ ॥ यत्रैवमुपायेन देवैर्निहन्यते तत्र त्वं कथं प्रमादी मुझसीत्याह- प्रमादवांस्त्वं क्षतधर्मवर्त्मा गतो मुनीनामपि शत्रुभावम् । कुलस्य शान्ति बहु मन्यसे चेत्कुरुष्व राजेन्द्र विभीषणोक्तम् ॥ ६०॥ प्रमादवानित्यादि-त्वं यतः प्रमादी अजितेन्द्रियत्वात् । क्षतधर्म- वर्त्मा त्यक्ताचारः । अतो मुनीनामपि शमे स्थितानामपि शत्रुत्वं गतः । ईदृशोऽपि कुलस्य शान्ति बहु मन्यसे चेत् लाघसे यदि । हे राजेन्द्र ! विभीषणोक्तम् कुरुष्व ॥ ६० ॥ घोषेण तेन प्रतिलब्बसञ्ज्ञो निद्राऽऽविलक्षः श्रुतकार्यसारः । स्फुरन्चनः साम्बुरिवाऽन्तरिक्षे वाक्यं ततोऽभाषत कुम्भकर्णः ॥६१॥ १ उरसो नखस्य च । २ अत्यन्तम् ।