पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३४८) भट्टिकाव्ये जयमङ्गलासमेते- [ द्वादश:- अत एव तत्स्थो जनो नाभिरक्ष्यः । एवं च सति परेषां किं दुःस्थम् इत्याचक्ष्व कथय । अतो रामेण ज्यायसा सन्धिरेवास्तु न विग्रह इति ॥ ५३ ॥ तदेव दर्शयन्नाह-- सन्धानमेवाऽस्तु परेण तस्मान्नाऽन्योऽभ्युपायोऽस्ति निरूप्यमाणः । नूनं विसन्धौ त्वयि सर्वमेतन्नेष्यन्ति नाशं कपयोऽचिरेण ॥ ५४ ॥ सन्धान मित्यादि- तस्मात्परेण शत्रुणा सह सन्धानं संधिरेवास्तु । अन्यो- अभ्युपायो निरूप्यमाणो नास्ति । नूनं निश्चितं विसन्धौ तेन समं सन्धिमकृत- वति त्वयि सति कपयः सर्वमेतत् दृश्यमानं रक्षोबलादि अचिरेण शीघ्रं नाशं नेष्यन्ति इति भावः ॥ ५४ ॥ विभीषणोक्तं बहु मन्यमानः प्रोन्नम्य देहं परिणामनम्रम् | स्खललिर्वार्धक कम्प्रमूर्धा मातामहो रावणमित्युवाच ॥ ५५ ॥ विभीषणोक्तमित्यादि – बहु मन्यमानः श्लाघमानो मातामहो मातुः पिता माल्यवान्नाम | देहं परिणामनम्रं वयसः परिणामान्नमनशीलं प्रोन्नम्योत्क्षिप्य । अत एव स्खलद्वलिः । वार्धक्रेन वृद्धभावेन | मनोज्ञादित्वात् वुञ । कम्प्रः कम्पनशीलो मूर्धा यस्य सः | रावणमिति वक्ष्यमाणमुवाच ॥ ५५ ॥ एक: पदातिः पुरुषो धनुष्मान् योऽनेकमायानि विषगतानि । रक्षःसहस्राणि चतुर्दशाऽऽदर्दीत का तत्र वो मानुषमात्रशङ्का ॥ ५६ ॥ एक इत्यादि – एकः असहाय: । पदातिः न हस्त्याद्यारूढः । पुरुषो मनुष्य | धनुष्मान् धनुर्मात्रायुधः । चतुर्दश रक्षःसहस्राणि अनेकमायानि विविध- मायाजालवितानदक्षाणि वियद्गतानि आकाशे स्थितानि । अत एव प्रया- तुमशक्यानि । परेषामित्यर्थात् । आर्दीत् हिंसितवान् | का तत्र वः युष्माकं मानुषमात्रशङ्का, नैवेत्यर्थः ॥ ५६ ।। किंतु दिव्योऽसाविति तदेव दर्शयन्नाह — ब्रह्मर्षिभिर्नूनमयं सदेवैः सतापितै रात्रिचरक्षयाय | • नराऽऽकृतिर्वान र सैन्यशाली जगत्यजय्यो विहितोऽभ्युपायः ॥५७॥ 9 अत्र परिकरः । विशेषणानां सांभिप्रायत्वात् ।